SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ पञ्जिकानामविवृतिः पाण्डुरपुण्डरीकपटलस्पष्टाभिरामप्रभाम् । अत्र पुण्डरीकशब्देन सामान्यपद्ममात्रमवगम्यते । अन्यथा पुण्डरीकस्य श्वेतत्वात् पाण्डुरशब्दाधिकत्वम् । पाण्डुरं श्वेतवर्णं यत् पुण्डरीकपटलं तद्वत् । स्पष्टा अभिरामा च प्रभा यस्याः सा तथोक्ता, ताम् । तेषां पुंसां मुखकमलकुहरात् भारती सुरसरित्कल्लोललोलोर्मयः, अश्रान्तं = सातत्येन प्रादुर्भवन्ति । भारत्येव नैर्मल्यात् अविच्छिन्नप्रवाहाच्च । सुरसरिद् = भागीरथी, तस्याः कल्लोला = असंख्योर्मयः, तद्वल्लोला: प्रतिवादिसंमोहकरा उर्मयो = निरन्तरवचनोत्कलिकाः किंभूताः ? विकटस्फुटाक्षरपदाः विकटानि शब्दार्थालङ्कारयुतानि शक्तिव्युत्पत्ति - सहितानि गम्भीरप्रशस्तिसुन्दराणि वा, स्फुटयनि झटित्यर्थप्रतिपादनसमर्थानि अक्षराणि पदानि यत्र तत् तथोक्ताः ॥८॥ " = इदानीमङ्गनावश्यार्थं रक्तध्यानमाह ये सिन्दूरपरागपुञ्ज पिहितां त्वत्तेजसा द्यामिमामुर्वीञ्चापि विलीनयावकरसप्रस्तारमग्नामिव । पश्यन्ति क्षणमप्यनन्यमनसस्तेषामनङ्गज्वरक्लान्तास्त्रस्तकुरङ्गशावकदृशो वश्या भवन्ति स्त्रियः ॥ ९ ॥ = = ये = मनुजा: हंहो भगवति ! आस्तां तावत् चिरकालम्, मुहूर्तमपि त्वत्तेजसा भवत्या रक्ततेजःपुञ्जेन, इमां द्यां आकाशं सिन्दूरपरागपुञ्जपिहितामिव, तथा इमां उर्वीमपि विलीनयावकरसप्रस्तारमग्नामिव पश्यन्ति दिवं पृथ्वीमपि आरक्त- भवत्तेजोभिरापूरितामिव विलोकयन्ति । एकोऽपि इवशब्दो डमरुककलिकावद् द्विधा भिद्यते । किंभूताः ? अनन्यमनसः ध्यानाद् अचलितचित्ताः । ननु तेषां किं फलमित्याह - तेषामित्यादि । तेषां पुंसां ध्रुवं स्मरज्वरतापोड्डामरिताः कुरङ्गशावकदृशः = स्त्रियः वश्याः, तदनुशरणत्वात् तच्छरणा एव = = निश्चितं अनङ्गज्वरक्लान्ताः तरुणहरिणलोचनाः अङ्गनाः भवन्ति ॥९॥ = Jain Education International = इदानीं श्रीजननं ध्यानविशेषमाह ६३ For Private & Personal Use Only = = www.jainelibrary.org
SR No.001966
Book TitleTripurabharatistav
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages122
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Devotion, & Worship
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy