________________
६२
श्रीत्रिपुराभारतीस्तवः व्युत्क्रमात् क्रमाभावाद्वा । यथा ह्सौं क्लीं ऐं। तथा क्लीं ऐं सौं...इत्याद्यष्टसंख्यं स्वयमेवोह्यम् ॥६॥
इदानीं विशेषमन्त्राक्षरमाख्याय सकलं ध्यानविशेषमाह
वामे पुस्तकधारिणीमभयदां साक्षस्त्रजं दक्षिणे भक्तेभ्यो वरदानपेशलकरां कर्पूरकुन्दोज्ज्वलाम् । उज्जृम्भाम्बुजपत्रकान्तनयनस्निग्धप्रभालोकिनी ये त्वामम्ब न शीलयन्ति मनसा तेषां कवित्वं कुतः ॥७॥
अहो मातः ! ये पुरुषाः, एवंविधां त्वां वक्ष्यमाणरूपाम्, मनसा न शीलयन्ति = न परिचिन्तयन्ति, तेषां कुतः कवित्वम् ? क्व काव्यसन्दर्भप्रतिभा स्यात् । कुतः-अध्यादिभ्यस्त वक्तव्यः-इत्यधिकरणे तस्प्रत्ययः । किंभूताम् ? वामे पक्षे एकहस्ते पुस्तकधारिणीम्, द्वितीये हस्ते अभयदाम् । तथा दक्षिणे भागे तृतीये हस्ते साक्षस्त्रजं जपमालिकासहिताम् । चतुर्थहस्ते भक्तेभ्य इति सम्प्रदाने चतुर्थी, वरदानपेशलकराम् । पेशलः स्थूललक्षः बहुव्ययी एवंविधभुजाम् । इत्थं चतुर्भुजकथनम् । तथा कर्पूरकुन्दोज्ज्वलाम् । एतयोरुपमानेन श्वेतत्व-सौकुमार्यमहालूँतादिगुणकथनम् । पुनरपि किंभूताम् ? उज्जृम्भाम्बुजपत्रकान्तनयनस्निग्धप्रभालोकिनीम्-उज्जृम्भं = उन्निद्रं यद् अम्बुजं तस्य पत्रं = दलं तद्वत् कान्ते नयने तयोः स्निग्धा = अरुक्षा रक्तप्रभा = कान्तिस्तद्युक्तमालोकयन्तीत्येवंशीला सा तथोक्ता, ताम् ॥७॥
इदानीमुदात्तवचनप्रवाहजननं शिरोध्यानमाह
ये त्वां पाण्डुरपुण्डरीकपटलस्पष्टाभिरामप्रभां सिञ्चन्तीममृतद्रवैरिव शिरो ध्यायन्ति मूर्ध्नि स्थिताम् । अश्रान्तं विकटस्फुटाक्षरपदा निर्याति वक्त्राम्बुजातेषां भारति भारती सुरसरित्कल्लोललोलोम्मिवत् ॥८॥
. अहो भारति ! वाग्देवते ! ये पुमांस इत्थंभूतां त्वां ध्यायन्ति अन्तर्दृष्ट्या अवलोकयन्ति । किंभूताम् ? मूजि स्थिताम् अमृतद्रवैः = सुधावृष्टिभिः शिरोऽर्वाक् ध्यायिनां ब्रह्मप्रदेशं सिञ्चन्ती वर्षन्तीमिव । ननु किंरूपाऽस्तीत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org