________________
श्रीत्रिपुराभारतीस्तवः राजनाम मन्त्राक्षरम्, निष्कलं = शुभं क्लीं काररूपम्, तत् सारस्वतम्, भुवि कश्चिद्विद्यावान् वेत्ति । स विरलो = न सर्वः कोऽपि । किंभूतम् ? अपरं = स्काररहितम् क्लीमिति । निष्कलं कश्च लश्च कलौ निर्गतौ कलौ यस्मात् तत् निष्कलम् । ईकाररूपं यद् बीजं सारस्वतम् । द्विजा: = ब्राह्मणाः, प्रतिपर्वणि, सत्यतपसो = मुनेराख्यानं = चरितं कीर्तयन्तः = पुण्यार्थं पठन्तः सन्तः, प्रारम्भे = तदुपक्रमे, प्रणवास्पदप्रणयितां = ॐकारस्थाने प्रतिष्ठां नीत्वा प्रापय्य, स्फुटमुच्चरन्ति = अधीयन्ते । सत्यतपसो मुनेः परमनिष्ठाप्रकर्षण नैष्ठिकभावो बभूव । यत् तस्य भगवतो मुनेः दुःसहशरनिकरप्रहारविह्वलं चीत्कुर्वन्तं पलायमानं वराहमालोक्य, तत्क्षणं सङ्क्रान्तयेव तत्पीडया परमकारुण्यात् ईमिति निर्वेदवाक्यं निर्गतम् । तदनन्तरं तत्पृष्ठत एवागतेन व्याधेन पृष्टः यद्-'भगवन् ! शरनिकराहतो वराहः केन वर्त्मना गतः ? मत्कुटुम्बं बुभुक्षया म्रियते, तदाख्याहि ।' तत्रान्तरे यदि दृष्टः कथ्यते, तदा वराहवधपातकं स्यात्, अथ यदन्यदाख्यायते तदा असत्यमुक्तं स्यात्, व्याधकुटुम्बबुभुक्षया पातकमपि दुरिमिति प्रतिक्षणं चेतसि चिन्तयतो मुनेः परलोकभीरोर्यत्पूर्वं ई इति पदमुच्चरितं तेनैव सारस्वतबीजोच्चारमात्रेण तुष्टा सरस्वती तद्वदनकमलमवतीर्य सूनृतं वचनमुच्चचार । यथा
या पश्यति न सा ब्रूते या ब्रूते पश्यति न सा ।
अहो व्याध ! स्वकार्यार्थिन् किं पृच्छसि पुनः पुनः ॥
तेन सम्प्रदायात् प्रथमं तद्वीजमुच्चार्य तदाख्यानाध्यायं पर्वकाले ब्राह्मणाः पुण्यार्थं पठन्ति ॥४॥
इदानीं तृतीयाक्षरस्य प्रभावमाह
यत्सद्यो वचसां प्रवृत्तिकरणे दृष्टप्रभावं बुधैस्तार्तीयीकमहं नमामि मनसा तद्वीजमिन्दुप्रभम् । अस्त्वौर्वोऽपि सरस्वतीमनुगतो जाड्याम्बुविच्छित्तये गौःशब्दो गिरि वर्त्तते स नियतं योगं विना सिद्धिदः ॥५॥
अहं = स्तुतिकर्ता, तार्तीयिकं पदं तृतीये भवं सौ इति बीजं इन्दुप्रभं चन्द्रधवलं तन्मनसा नमामि । किंभूतम् ? अविद्यमानो हो हकारो यस्य तदहं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org