________________
पञ्जिकानामविवृतिः
त्रिभुवनं तस्य जननव्यापारः कृतिनियोगस्तत्र बद्धोद्यमां कृतोत्साहाम् । अथवा विश्वजनानां त्रिजगल्लोकानाम्, नव्या अदृष्टश्रुतपूर्वाः, अपारा बहवः बद्धा आरब्धा साराश्च उद्यमाः पालनादयो यया सा तथोक्ता ताम् । इत्थं = सानुरूपां कुण्डलिनी शक्तिम्, ज्ञात्वा = सम्यग् अवगम्य, पुरुषा जननीगर्भे अर्भकत्वं न पुनः स्पृशन्ति = संसारिणो न भवन्ति, मुक्तिमेव प्रतिपद्यन्ते इत्यर्थः ॥२॥
इदानीं प्रथमाक्षरस्य वाग्भवबीजस्य माहात्म्यं प्रतिपादनार्थं पठितसिद्ध
त्वमाह
दृष्ट्वा सम्भ्रमकारि वस्तु सहसा ऐ ऐ इति व्याहृतं येनाकूतवशादपीह वरदे ! बिन्दुं विनाप्यक्षरम् । तस्यापि ध्रुवमेव देवि ! तरसा जाते तवानुग्रहे वाचः सूक्तिसुधारसद्रवमुचो निर्यान्ति वक्राम्बुजात् ॥३॥
अहो देवि ! वरदे ! विश्वप्रसादकारिणि ! येन केनापि विदुषा मूर्खण वा, सम्भ्रमकारि आश्चर्यरूपं वस्तु दिवि तारकाऽप्सरोदर्शनादिकं प्रेक्ष्य, आकूतवशात् अद्भुतरसानुभावात्, सहसा = अकस्मात्, ऐ ऐ इत्यक्षरमुक्तम्, आश्चर्यवशात् वीप्सा । तर्हि सबिन्दुर्भविष्यति ऎकार इत्याह-बिन्दुं विना अपि । सानुस्वारो हि ऎकारः प्रथमं बीजम् । अपि विस्मये । तस्य मुखकुहरात् सूक्तिसुधारसद्रवमुचः सुभाषितामृतरसास्वादस्यन्दिन्यो वाचो निर्यान्ति स्वयमुद्भवन्ति । नन्वेवंविधानां वाणीनां कथमुत्पत्तिस्तत्राह-तस्यापीत्यादि ॥ हे देवि ! धुवं = निश्चितं तव अनुग्रहे प्रसादे = तरसा = जपं विनाऽपि बलात्कारेण, तस्य जाते एव उत्पन्ने एव, स त्वया तदाप्रभृति शिरसि हस्तं दत्त्वा अनुगृहीत इत्यर्थः ॥३॥
इदानीं द्वितीयाक्षरस्य माहात्म्यमाह
यन्नित्ये तव कामराजमपरं मन्त्राक्षरं निष्कलं तत्सारस्वतमित्यवैति विरलः कश्चिद् बुधश्चेद् भुवि । आख्यानं प्रतिपर्व सत्यतपसो यत्कीर्तयन्तो द्विजाः प्रारम्भे प्रणवास्पदप्रणयितां नीत्वोच्चरन्ति स्फुटम् ॥४॥ अहो नित्ये = शाश्वते ! तव = भवत्या, यद् अपरं = द्वितीयं काम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org