________________
प्रस्तावना
में प्रज्ञामाहात्म्य के नाम से उल्लिखित है । "
१. न तद्गुरोर्न शास्त्रार्थान्न पुण्यात् प्राप्यते पदम् । यत्साधुसङ्गाभ्युदिताद्विचारविशदाद्धृदः ।। १७ ।। सुन्दर्या निजया बुद्ध्या प्रज्ञयेव वयस्यया । पदमासाद्यते राम, न नाम क्रिययाऽन्यया ।। १८ ।। यस्योज्ज्वलति तीक्ष्णाग्रा, पूर्वापराविचारिणी । प्रज्ञादीपशिखा जातु, जाड्यान्ध्यं तं न बाधते ।। १९ ।। दुरुत्तरा या विपदो, दुःखकल्लोलसंकुलाः । तीर्यते प्रज्ञया ताभ्यो, नावाऽऽपद्भ्यो महामते ॥ २० ॥ प्रज्ञाविरहितं मूढमापदल्पाऽपि बाधते । पेलवाचाऽनिलकला, सारहीनमिवोलपम् ॥ २१ ॥ प्रज्ञावानसहायोऽपि कार्यान्तमाधिगच्छति । दुष्प्रज्ञः कार्यमासाद्य, प्रधानमपि नश्यति ॥ २३ ॥ शास्त्रसज्जनसंसर्गैः प्रज्ञां पूर्वे विवर्धयेत् । सेकसंरक्षणारम्भैः पुलप्राप्तौ लतामिव ।। २४ ।। प्रज्ञाबलबृहन्मूलः काले सत्कार्यपादपः । फलं फलत्यतिस्वादु भासो बिम्बमिवैन्दवम् ।।२५।। य एव यत्नः क्रियते बाह्यर्थोपार्जने जनैः । स एव यत्नः कर्तव्यः पूर्वं प्रज्ञाविवर्धने ॥ २६ ॥ सीमान्तं सर्वदुःखानामापदां कोशमुत्तमम् । बीजं संसारवृक्षाणां प्रज्ञामान्द्यं विनाशयेत् ॥ २७ ॥ स्वर्गाद्यद्यच्च पातालाद्राज्याद्यत्समवाप्यते । तत्समासाद्यते सर्वं, प्रज्ञाकोशान्महात्मना ॥ २८ ॥ प्रज्ञयोत्तीर्यते भीमात्तस्मात्संसारसागरात् । न दानैर्न च वा तीर्थैस्तपसा न च राघव ॥२९॥ यत्प्राप्ताः सम्पदं दैवीमपि भूमिचरा नराः । प्रज्ञापुण्यलतायास्तत्फलं स्वादु समुत्थितम् ॥ ३०॥ प्रज्ञाया नखरालूनमत्तवारणयूथपाः । जम्बुकैर्विजिताः सिंहा सिंहैर्हरिणका इव ॥ ३१॥ सामान्यैरपि भूपत्वं प्राप्तं प्रज्ञावशान्नरैः । स्वर्गापवर्गयोग्यत्वं प्राज्ञस्यैवेह दृश्यते ॥ ३२ ॥ प्रज्ञया वादिनः सर्वे स्वविकल्पविलासिनः । जयन्ति सुभटप्रख्यान्नरानप्यति भीरवः ॥ ३३ ॥ चिन्तामणिरियं प्रज्ञा हृत्कोशस्था विवेकिनः । फलं कल्पलतेवैषा चिन्तितं सम्प्रयच्छति ॥ ३४॥ भव्यस्तरति संसारं, प्रज्ञयापोह्यतेऽधमः । शिक्षितः पारमाप्नोति, नावा नाऽऽप्नोत्यशिक्षितः ॥ ३५ ॥
Jain Education International
For Private & Personal Use Only
xxix
www.jainelibrary.org