SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Xxviii चौथा कर्मग्रन्थ चित्रव्योमाञ्जनेनेव, ध्यायन्निति न लिप्यते।।३।। लिप्तताज्ञानसंपातप्रतिघाताय केवलम्। निलेपज्ञानमग्नस्य क्रिया सर्वोपयुज्यते।।४।। तपः श्रुतादिना मत्त: क्रियावानपि लिप्यते। भावनाज्ञानसम्पन्नो निष्क्रियोऽपि न लिप्यते।।५।।' (ज्ञानसार, निर्लेपाष्टक) छिन्दन्ति ज्ञानदात्रेण स्पृहाविषलतां बुधाः। मुखशोषं च मूर्छा च दैन्यं यच्छति यत्फलम्।।३।।' (ज्ञानसार, निःस्पृहाष्टक) 'मिथोयुक्तपदार्थाना,-मसंक्रमचमत्क्रिया। चिन्मात्रपरिणामेन, विदुषैवानुभूयते।।७।। अविद्यातिमिरध्वंसे, दृशा विद्याञ्जनस्पृशा। पश्यन्ति परमात्मानमात्मन्येव हि योगिनः।।८।।' (ज्ञानसार, विद्याष्टक) भवसौख्येन किं भूरिंभयज्वलनभस्मना। सदा भयोज्झितज्ञानसुखमेव विशिष्यते।।२॥ न गोप्यं क्वापि नारोप्यं, हेयं देयं च न क्वचित्। क्व भयेन मुनेः स्थेयं, ज्ञेयं ज्ञानेन पश्यतः।।३।। एकं ब्रह्मास्त्रमादाय, निघ्नन् मोहचमूं मुनिः। बिभेति नैव संग्रामशीर्षस्थ इव नागराट्।।४।। मयूरी ज्ञानदृष्टिश्चेत् प्रसर्पति मनोवने। वेष्टनं भयसर्पाणां न तदाऽऽनन्दचन्दने।।५।। कृतमोहास्त्रवैफल्यं ज्ञानवर्म बिभर्ति यः। क्व भीस्तस्य क्व वा भङ्गः, कर्मसंगरकेलिषु।।६।। तूलवल्लघवो मूढा भ्रमन्त्यभ्रे भयानिलैः। नैकं रोमापि तैनिगरिष्ठानां तु कम्पते।।७।। चित्ते परिणतं यस्य चारित्रमकुतोभयम्। अखण्डज्ञानराज्यस्य तस्य साधोः कुतो भयम।।८॥(ज्ञानसार, निर्भयाष्टक) अदृष्टार्थेऽनुधावन्त: शास्त्रदीपं विना जडाः। प्राप्नुवन्ति परं खेदं प्रस्खलन्तः पदे पदे।।५।। अज्ञानाहिमहामन्त्रं स्वाच्छन्द्यज्वरलङ्घनम्। धर्मारामसुधाकुल्यां, शास्त्रमाहुमहर्षयः।।७॥ शास्त्रोक्ताचारकर्ता च, शास्त्रज्ञ: शास्त्रदेशकः। शास्त्रैकदृग् महायोगी प्राप्नोति परमं पदम्।।८।। (ज्ञानसार, शास्त्राष्टक) ज्ञानमेव बुधाः प्राहुः, कर्मणां तापनात् तपः। तदाभ्यन्तरमेवेष्टं, बाह्यं तदुपबृंहकम्॥१॥ आनुस्रोतसिकी वृत्तिर्बालानां सुखशीलता। प्रातिस्रोतसिकी वृत्तिर्ज्ञानिनां परमं तपः।।२।। सदुपायप्रवृत्तानामुपेयमधुरत्वतः। ज्ञानिनां नित्यमानन्दवृद्धिरेव तपस्विनाम्॥४॥' (ज्ञानसार, तपोष्टक) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001895
Book TitleKarmagrantha Part 4 Shadshitik
Original Sutra AuthorDevendrasuri
AuthorSukhlal Sanghavi
PublisherParshwanath Vidyapith
Publication Year2009
Total Pages290
LanguageHindi, Prakrit
ClassificationBook_Devnagari & Karma
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy