________________
६१
Jain Education International
द्वितीयो विवेकः
प्रेमाद्रों वर्ततेऽन्यस्थां, नेता मुख्याभिशङ्कितः । देवी दक्षाऽपरा मुग्धा, समा धर्मा द्वयोः पुनः ॥ ७ ॥ क्रोध - प्रसाद - प्रत्यूह-रति-च्छादि भूरिशः । एवं प्रकरणी किन्तु नेता प्रकरणोदितः ॥ ८ ॥ एकाहचरितैकाङ्को, गर्भामर्शविवर्जितः । अस्त्रीनिमित्तसङ्ग्रामो, नियुद्ध-स्पर्धनोद्धतः ॥ e ॥ स्वल्पयोषज्जनः रूपात वस्तुर्दीप्तरसाश्रयः ।
दिव्य भूपतिस्वामी, व्यायोगो नायिकां विना ।। १० ।। विशेयः समवकारः स्यातार्थं निर्विमर्शकः । उदात्तदेव-दैत्येशो, वीथ्यङ्गी वीर रौद्रवान् ॥ ११ ॥ अत्र द्वादश नेतारः फलं तेषां पृथक् पृथक् । अङ्कास्त्रयस्त्रिशृङ्गारा, त्रिकपटा स्त्रिविद्रवाः ॥ १२ ॥ षड्युग्मेकमुहूर्ताः स्युः, निष्टितार्थाः स्वकार्यतः । महावाक्ये च सम्बद्धा:, क्रमाद् द्वय कैकसन्धयः ॥ १३ ॥ शृङ्गारस्त्रिविधो धर्म - कामार्थ फलहेतुकः । वय - वञ्चयक- देवेभ्यः सम्भवी कपटस्त्रिधा ॥ १४ ॥ जीवाजीवोभयोत्थः स्याद्, विद्रवस्त्रिरमीषु तु । प्रत्येकमङ्कष्वेकः, पद्यं च स्रग्धराऽऽदिकम् ।। १५ ।।
भाणः प्रधान शृङ्गार-वोरो मुखनिर्वाहवान् । एकाङ्की दशलास्याङ्गः, प्रायो लोकानुरञ्जकः ।। १६ ।। एको विटो वा धूर्तोवा, वेश्याऽऽदेः स्वस्थ वा स्थितिम् । व्योमोक्त्या वर्णयेदत्र, वृत्तिर्मुख्या च भारती ॥ १७ ॥
वैमुख्यकार्यं वीष्यङ्गिः ख्यातकोलीन दम्भवत् । हास्याङ्गि मारण सन्ध्यङ्क-वृत्ति प्रहसनं द्विधा ॥ १८ ॥ निन्द्य पाखण्डि विप्रादेः, अश्लीलाऽसभ्य-वर्जितम् । परिहासवच:- प्रार्य, शुद्धमेकस्य चेष्टितम् ।। १९ ।। सङ्कीर्णमुद्धताकल्प - भाषाऽऽचार-परिच्छदम् । बहूनां बन्धकी- चेट-वेश्याऽऽदीनां विचेष्टितम् ॥ २० ॥ प्रशान्त- हास्य शृङ्गार-विमर्शः ख्यातवस्तुकः । रौद्रमुख्यश्चतुरङ्कः सेन्द्रजाल - रणो डिमः ।। २१॥ प्रत्रोल्कापात-निर्घाताः, चन्द्र-सूर्योपरक्तयः । सुरासुर-पिशाचाद्याः, प्रायः षोडश नायकाः ।। २२ ।।
For Private & Personal Use Only
www.jainelibrary.org