________________
प्रथमो विवेका
तिरस्कारो इति: खेदः, श्रम: काय-मनो-भवः । विरोधः प्रस्तुतज्यानि, संरम्भः शक्तिकीर्तनम् ॥ ५६ ।। कद्धप्रसादनं शक्तिः भाविसिद्धिः प्ररोचना । फलसामीप्यमादानं, व्यवसायोऽर्थ्य हेतुयुक् ॥ ६० ।। सन्धिनिरोधो ग्रथनं निर्णय: परिभाषणम् । उपास्तिः कृतिरानन्दः, समयः परिगृहनम् ।। ६१ ।। भाषणं काव्यसंहार-पूर्वभाव प्रशस्तयः। चतुर्दशाङ्गो निर्वाहः, सन्धिीज-फलागमः ।। ६२॥ निरोध: कार्यमीमांसा, प्रथनं कार्यदर्शनम् । निर्णयोऽनुभवख्यातिः, परिभाषा स्वनिन्दनम् ॥ ६३ ॥ सेवोपास्ति: कृतिः क्षेमम्, प्रानन्दो वाञ्छितागमः। समयो दुःखनिर्वासोदुताप्ति: परिगृहनम् ॥ ६४ ॥ भाषणं साम-दानोक्तिः, प्राग्भाव: कृत्यदर्शनम् । वरेच्छा काव्यसंहारः प्रशस्ति: शुभशंसना ।। ६५ ।।
इति श्रीरामचन्द्र-गुणचन्द्रविरचिते नाटयदर्पणसूत्रे नाटकनिर्णयो नाम
प्रथमो विवेकः ॥ १॥
प्रथः प्रकरणाघेकादशरूपनिर्णयो द्वितीयो विवेकः प्रकरणं वरिणग्-विप्र-सचिव-स्वाम्यसंकरात् । मन्दगोत्राङ्गनं दिव्यानाश्रितं मध्यचेष्टितम् ॥ १॥ दास-श्रीष्ठि-विटयुक्त, क्लेशाढय तच्च सप्तधा। कल्प्येन फल-वस्तूनाम्, एक-द्वि-त्रि-विधानतः ॥ २ ॥ कुलस्त्री गृहवार्तायां, पण्यस्त्री तु विपर्यये ।। विटे पत्यो द्वयं तस्माद् एकविंशतिधाऽप्यदः ॥ ३ ॥ अत्राकल्प्यं पुरा क्लुप्तं, यद्वाऽनार्षमसद्गुणम् ।। शेषं नाटकवत् सर्व, कैशिकीपूर्णतां विना ॥ ४ ॥ चतुरङ्का बहुस्त्रीका, नृपेशा स्त्री-महीफला। कल्प्यार्था - कैशिकी-मुख्या, पूर्वरूपद्वयोत्थिता ।। ५ ।। प्रख्याति-ख्यातितः कन्या-देव्योर्नाटी चतुर्विधा । पत्र मुख्याकृतो योगः, पर्यन्ते नेतुरन्यया ।। ६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org