________________
x]
Jain Education International
प्रथमो विवेकः
बीजस्यप्तिरुपक्षेपः स्वल्पव्यासः परिक्रिया | विनिश्चयः परिन्यासः, पुनर्न्यासः समाहितिः ।। ४३ ।। स्वल्पप्ररोह उद्भेदः करणं प्रस्तुतक्रिया । विलोभनं स्तुतेर्गायं, भेदनं पात्रनिर्गमः ॥ ४४ ॥
प्रापणं सुखसम्प्राप्तिः, युक्तिः कृत्यविचारणा । विधानं सुख-दुःखाप्तिः, विस्मयः परिभावना ।। ४५ ।। विलासो धूननं रोधः, सान्त्वनं वर्ण संहृतिः । नर्म नर्मद्युतिस्तापः स्युरेतानि यथारुचि ।। ४६ ।। पुष्पं प्रगमनं वज्रम्, उपन्यासोपसर्पणम् । पञ्चावश्यमप्यङ्गानि प्रतिमुखे त्रयोदश ॥। ४७ ।। विलासो न स्त्रियोरीहा, घूननं साम्न्यनादरः । रोषोऽतिः सान्त्वनं साम, पात्रोधो वर्णं संहृतिः ॥ ४८ ॥ क्रीडाये हसनं नर्म दोषावृत्तौ तु तदुद्युतिः । अपायदर्शनम् ताप:, पुष्पं वाक्यं विशेषवत् ॥ ४९ ॥ प्रगमः प्रतिवोक् श्रेणिः, वज्र प्रत्यक्षकर्कशम् । उपपत्तिरुपन्यासः, नष्टेष्टेहाऽनुसर्पणम् ॥ ५० ॥ सङग्रहो रूपमनुमा, प्रार्थनोदाहृतिः क्रमः । उद्वेगो विद्रवश्चंद्, गुरणतः कार्यमष्टकम् ॥ ५१ ॥ प्रक्षेपोऽधिलं मार्गोऽसत्या हरण- तोटके | पंचतानि प्रधानानि, गर्भेऽङ्गानि त्रयोदश ।। ५२ ।। सङ्ग्रहः साम-दानादिः, रूपं नानार्थसंशयः । अनुमा निश्चयो लिङ्गात्, प्रार्थना भावयाचनम् ॥ ५३ ॥ उदाहृतिः समुत्कर्षः, क्रमो भावस्य निर्णयः । उद्वेगो भोर्द्रवः शङ्खाऽऽक्षेपो बीजप्रकाशनम् ॥ ५४ ॥ अधिबल बलाधिक्यं, मार्गस्तत्त्वार्थशंसनम् । असत्याहरणं छद्म तोटकं - गर्भितं वचः ॥ ५५ ॥ द्रवः प्रसङ्गः सम्फेटोऽपवादाश्छादनं द्युतिः । खेदो विरोध: संरम्भः भवेयुर्गरणतो नव ।। ५६ ।। शक्ति प्ररोचनाऽऽदान व्यवसायास्तु मुख्यतः । त्रयोदशाङ्गान्यामर्शे, द्रवः पूज्यव्यतिक्रमः ॥ ५७ ॥ प्रसङ्गो महतां कीर्तिः, सम्फेट: क्रोधजं वचः । अपवादः परीवादः, छादनं मन्युमार्जनम् ॥ ५८ ॥
For Private & Personal Use Only
www.jainelibrary.org