________________
द्वितीयो विवेकः
उत्सृष्टिकाङ्कः पुंस्वामी, ख्यातयुद्धोत्थवृत्तवान् । भाणोक्तसन्धि-वृत्त्यङ्गः, वाग्युद्धः करुणाङ्गिकः ॥ २३ ॥ निर्वेदवाचो भूम्नात्र, योषितां परिदेवितम् । नरा निवृत्तसङ्ग्रामाः, चेष्टाश्चित्रा विसंस्थुलाः ॥ २४ ॥ ईहामगः सवीथ्यङ्गः, दिव्येशो दृप्तमानवः । एकाश्चतुरङ्को वा स्याताख्यातेतिवृत्तवान् ॥ २५ ॥ दिव्यस्त्रीहेतुसङ्ग्राम:, निर्विश्वास: सविड्वरः । स्थ्यपहार-भेद-दण्डः, प्रायो द्वादशनायकः ।। २६ ।। व्याजेनात्र रणाभावः, वधासन्ने शरीरिणि । व्यायोगोक्ता रसाः सन्धि-वृत्तयोऽनुचिता रतिः ।। २७ ॥ सर्वस्वामिरसा वीथी, त्वेकाङ्का द्वय कपात्रिका । मुखनिर्वाहसन्धि: स्यात्, सर्वरूपोपयोगिनी ॥ २८ ॥ ग्याहारोऽधिवलं गण्डः, प्रपञ्चस्त्रिगतं छलम्। असत्प्रलापो वाक्केली, नालिका मृदवं मतम् ॥ २६ ॥ उद्धात्यकावलगिते, अथावस्पन्दितं स्मृतम् । भारतीवत्तिवर्तीनि, वीथ्यङ्गानि त्रयोदश ॥ ३० ॥ अन्यार्था भाविदृष्टिा, व्याहारो हास्यलेशगीः । मिथो जल्पे स्वपक्षस्य, स्थापनाऽधिबलं बलात् ॥३१॥ गण्डोऽकस्माद् यदन्यार्थ, प्रस्तुतानुगतं वचः। प्रपञ्चः सस्तवं हास्य, मिथो मिथ्यकलाभकृत् ।। ३२॥ त्रिगतं शब्दसाम्येन, भिन्नस्यार्थस्य योजनम् । वचोऽन्यायं छलं हास्य-वञ्चना-रोषकारणम् ।। ३३ ।। असत्प्रलास्तत्त्वेन, हितं यन्नावगम्यते । प्रश्नोत्तरं तु वाक्केली, हास्या वाक् प्रतिवागपि ॥ ३४ ।। हास्याय वश्चना वाली, व्यत्ययो गुण-दोषयोः। मृदवं परस्परं स्याद्, उद्घात्यं गूढ़ भाषणम् ॥ ३५ ॥ तच्चावल गितं सिद्धिः, कार्यस्यान्यमिषेण या। स्वेच्छोक्तस्यान्यथाऽऽस्यानं, यदवस्पन्दितं तु तत् ।। ३६ ॥ स्वां स्वां वैशेषिकों हित्वा, सन्धि-वृत्त्यादिको स्थितिम् । सामान्या नाटकस्यान्या, विज्ञया रूपकान्तरे ।। ३७ ॥
इति श्रीरामचन्द्र-गुणचन्द्रविरचिते नाटयदर्पणे प्रकरणाद्य कादशरूपनिर्णयो नाम
द्वितीयो विवेक; समाप्तः ।। २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org