SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ २४] नलविलासे . राजा-हताः स्मः । कलहंसः-किश्च सम्भावितमनोरथोपायः समायातोऽस्मि । - राजा-(सहर्षम् ) अनुगृहीताः स्मः । उपायसम्भावनायामुपेयमपि सम्भाव्यते । भातु तावत् । दृष्टवानसि विदर्भराजात्मजाम् __कलहंसः-देव ! अदृष्टविदर्भराजात्मजस्य कलहंसस्य विदर्भगमनं निष्फलम् । राजा-न केवलमदृष्टविदर्भराजात्मजस्य कलहंसस्य विदर्भगमनं निष्फलम् , जन्मापि । तदलं वाचालताविस्तरेण । प्रथमं तावद् दमयन्तीतनुचारिमाणं समासतो विज्ञपय । कलहंसः-अयं समासः । राजा--( सप्रमोदम् ) वैदर्भीतनुवर्णनां रसघनश्रोतव्यसीमामिमा___ माकर्ण्य श्रवणौ ! युवां गमयथः स्वं जन्म तावत्फलम् । त्रैलोक्याद्भुतरूपदर्शनसुवासम्पर्क हेतुः पुनः पुण्यं वा नयने ! फलिष्यति वपुलावण्यपुण्योत्सवे ॥१॥ ___ कलहंस ! सावधानोऽस्मि । कलहंसः-देव ! काव्यं चेत् सरसं किमर्थममृतं वक्त्रं कुरङ्गीदृशा चेत् कन्दर्पविपाण्डुगण्डफलकं राकाशशाङ्केन किम् ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy