________________
११२ ]
नलविलासे
(सर्वे परिकामन्ति) ( विलोक्य सभयं निवृत्य च ) आयें ! निवर्तस्व निवर्तस्व । चिरप्ररूढगाढबुभुक्षाक्षामकुक्षिः प्रतिनादमेदुरेण
वेडानिनादेन समन्ततः शोषयन् वन्यस्तम्बेरमाणां मदजलानि करालजिह्वाजटालवक्त्रकुहरस्तरुणगुञ्जापुञ्जारुणेक्षणः प्रतिक्षणं लोललागूलदण्डेन साटोपमाच्छोटयनवनिपीठमेकः केशरिकिशोरः सहकारनिकुञ्जाभ्यन्तरमधिवसति ।
दमयन्ती- 'अज्ज ! मज्झे केसरी चिट्ठदि ? दिडिया करिस्सदि मे दुक्खमोक्खं ।
(पिङ्गलको विलोक्य सभयं नश्यति) दमयन्ती- भोदु, उवसप्पामि णं ।
नल:-(विलोक्य ससम्भ्रममात्मगतम् ) कथं देवों पश्चाननो व्यापादयितुमपक्रान्तः! हाः! हतोऽस्मि । (विमृश्य) वीराग्रणीः खल्बसौ तदमु सामप्रयोगेण वारयामि ।
(स रभसमुत्थाय) : एकाकिन्यवला वियोगविधुरा घोरान्तरप्रान्तरक्षोणीपादविहारनिष्ठितव पुस्त्वग्मांसरक्तस्थितिः । अस्यां कालकरालवत्रकुहरे प्रस्थापितायां हरे ! किं शौयं भवतोऽतिशायि भविता को वा बुभुक्षाक्षयः ? ॥१६॥ १. आर्य ! मध्ये केसरी तिष्ठति ?दिष्टया करिष्यति मे दुःखमोक्षम् । २. भवतु, उपसर्पाभ्येनम् ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org