________________
पचमोऽङ्कः
राजा-(विलोक्य ) कथं चरणचङ्क्रमणगाढप्ररूढगात्रपरिश्रमेण क्षणादेव निद्राप्रकर्षमधिरूढा देवी । तदारभ्यते चण्डालकुलालङ्करणं कम। ( उत्थातुमिच्छति । साशङ्कम् ) कथमिति निबिडमापीड्य मामियं विरहकातरा शेते । तपम्विनी मामवधारयति मुखमधुरमवसानदारुणं कालकूटफलम् । सरले ! मुश्च मुश्च त्रिजगत्परितापावापहेतुः सर्वभक्षी नलरूपेणानलोऽस्मि । अपि च भत वत्सले ! विश्वासघातिनमकृत्यकरं श्वपाकं
मा मा स्पृश श्लथय दो परिरम्भमुद्राम् । अस्मादृशामकरुणैकशिरोमणीनां
सर्वसहाऽपि विरमत्यनुषङ्गपापात् ॥१२॥
(शनैर्दोःपरिरम्भमुन्मुच्य साशङ्कम् ) कथमम्बरेण परिवेष्टितोऽस्मि । ( विहस्य ) अयि यत्नपरे। किमीदृशैः प्रयत्नैरुपरुध्यति क्रूरकर्मपटीयान् नलः १ यस्त्रिजगदन्धनेन प्रेम्णा न बध्यते तस्य मृणालतन्तुपेशलमम्बरं किमादधीत ? एष तरवारिणा च्छित्त्वा गच्छामि । (कृपाणं प्रति ) सखे! दर्शय फलमात्मसन्निधानस्य । ( सरोषम् ) कथं कृपालुरिव विलम्बसे ? किञ्च नलस्यासिरसि दयालुश्चेति व्याहतं चरितम् । अपि चधनं प्रेमग्रन्थि सदयमपि चिच्छेद हृदयं ।
कृपा केयं ब्रूहि स्फुरति हृदि निस्त्रिंश ! भवतः ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org