________________
तं मुणिवयणं सोउं उप्पन्नं मयरकेउकुमरस्स । जाईसरणं सहसा ईहापोहं करितस्स ॥ ११४ ॥ सरिऊण य पुव्वभवं भणियं कुमरेण एवमेयंति । हरिऊण कत्थ मुक्का भयवं! सुरसुंदरी तेण? ॥ ११५ ॥ तत्तो मुणिणा भणियं चुयस्स देवस्स तस्स हत्थाओ । गयणाओ निवडिया सा पडिया कुसुमायरुजाणे ॥ ११६ ॥ हत्थिणपुरम्मि अच्छइ संपइ सा तुज्झ कुमर! जणणीए । कमलावईइ पासे तत्तो कुमरेण वज्जरियं ॥ ११७ ॥ किं मह न होइ जणओ एसो जणणीव कणगमालत्ति । तत्तो मुणिणा सिट्ठो सुरावहाराइवुत्तंतो ॥ ११८ ॥ अह चित्तवेगरना भणियं मुणिवयणभावियमणेण । किं कुमर! तं न सुमरिसि जं तइया देवभावम्मि ॥ ११९ ॥
तं मुनिवचनं श्रुत्वा उत्पन्नं मकरकेतुकुमारस्य । जातिस्मरणं सहसा ईहापोहं कुर्वतः ॥ ११४ ॥ स्मृत्वा च पूर्वभवं भणितं कुमारेण एवमेतदिति । हृत्वा कुत्र मुक्ता भगवन् ! सुरसुन्दरी तेन ? ॥ ११५ ॥ ततो मुनिना भणितं च्युतस्य देवस्य तस्य हस्तात् । गगनाद् निपतिता सा पतिता कुसुमाकरोद्याने ॥ ११६ ॥ हस्तिनापुरे आस्ते संप्रति सा तव कुमार ! जनन्याः । कमलावत्याः पार्श्वे ततः कुमारेण कथितम् ॥ ११७ ॥ किं मम न भवति जनक एष जननी वा कनकमालेति । ततो मुनिना शिष्टः सुरापहारादिवृतान्तः ॥ ११८ ॥ अथ चित्रवेगराज्ञा भणितं मुनिवचनभावितमनसा । किं कुमार ! त्वं न स्मरसि यत्तदा देवभावे ॥ ११९ ॥
६१०
पञ्चदशः परिच्छेदः
सुरसुन्दरीचरित्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org