________________
मोत्तूण अट्टरुद्दे झाएयव्वाणि धम्मसुक्काणि। भवेयव्वो य अणिच्चयाइवरभावणानिवहो ॥ ८४ ॥ अब्भसियव्वो विणओ पावा संच्छंदया न कायव्वा । निच्चंपि अणुढेओ दसप्पयारोवि जइधम्मो ॥ ८५ ॥ खंती मद्दव अजव मुत्ती तवसंजमे य बोद्धब्वे । सच्चं सोयं आकिंचणं च बंभं जइधम्मो ॥ ८६ ॥ वसियव्वं मुणिमज्झे नो कायव्वा कुसीलसंसग्गी । पंचविहोवि पमाओ परिहरियव्वो पयत्तेण ॥ ८७ ॥ मजं विसयकसाया निद्दा विगही य पंचमी भणिया। इय पंचविहपमाओ जीवं पाडेइ संसारे ॥ ८८ ॥ किं बहुणा धीदुब्बलमणतावकरो उ जावजीवाए । वोढव्वो अट्ठारससीलंगसहस्सपब्भारो ॥ ८९ ॥ मुक्त्वा आर्त्तरौद्रान् ध्यातव्ये धर्मशुक्ले । भावितव्यश्चानित्यादिवरभावनानिवहः ॥ ८४ ॥ अभ्यसितव्यो विनय: पापानि स्वाच्छान्दिकानि न कर्तव्यानि । नित्यमपि अनुष्ठेयो दशप्रकारोऽपि यतिधर्मः ॥ ८५ ॥ क्षान्तिः मार्दव आर्जवो मुक्तिस्तपःसंयमे च बोद्धव्ये । सत्यं शौचमाकिञ्चन्यं च ब्रह्म यतिधर्मः ॥ ८६ ॥ वसितव्यं मुनिमध्ये न कर्तव्या कुशीलसंसर्गीः । पञ्चविधोऽपि प्रमादः परिहर्तव्यः प्रयत्नेन ॥ ८७ ॥ मद्यं विषयकषाया निद्रा विकथा च पञ्चमी भणिता । इति पञ्चविधप्रमादः जीवं पातयति संसारे ॥ ८८ ॥ किं बहुना धीदुर्बलमनस्तापकरस्तु यावज्जीवम् । वोढव्योऽष्टादशशीलाङ्गसहस्त्रप्राग्भारः ॥ ८९ ॥ १. स्वाच्छान्दिकानि । २. मुक्ति:-लोभाभावः । ३. अकिञ्चन्यम् अकिञ्चनस्य द्रविणरहितस्य भावः कर्म वेति विगृह्य । ४. बंभं-ब्रह्म । ५. विकथा ।
सुरसुन्दरीचरित्रम्
चतुर्दशः परिच्छेदः
५६३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org