________________
तहवि हु कहेमि सुंदर ! मा वयणं तुज्झ निप्फलं जाउ । सीहगुहानामेणं अइविसमा अत्थि पल्लित्ति ॥ १९० ॥ तीए य सुपइट्ठो पल्लिवई तस्स भारिया लच्छी । तीए पुत्तो जाओ जयसेणो जणमणाणंदो ॥ १९१ ॥ तस्स य बालग्गहो अहयं नामेण देवसम्मोत्ति । कीलामि य जयसेणं तत्थ अहं विविहकीलाहिं ॥ १९२ ॥ अह अन्नया य बाहिं विणिग्गओ गेण्हिऊण जयसेणं । पुरिसेहिं दोहि दिट्ठो तत्थ अहं जोगिरूवेहिं ॥ १९३ ॥ संभासिऊण पुव्विं दिन्नो मह तेहिं पवरतंबोलो । तम्मि समाणियमित्ते मइसंमोहो महं जाओ ॥ १९४ ॥ तत्तो कुमरसमेओ तेसिमणुमग्गमेव लग्गो हं । जाणामि नेव किंचिवि विमोहिओ तेहिं पावेहिं ॥ १९५ ॥
तथापि खलु कथयामि सुन्दर ! मा वचनं तव निष्फलं यातु । सिंहगुफानाम्नाऽतिविषमाऽस्ति पल्लीति ॥ १९० ॥ तस्याश्च सुप्रतिष्ठः पल्लिपतिस्तस्य भार्या लक्ष्मीः । तस्याः पुत्रो जातो जयसेनो जनमन-आनन्दः ॥ १९१ ।। तस्य च बालपालकोऽहं नाम्ना देवशर्मेति । क्रीडयामि च जयसेनं तत्राऽहं विविधक्रीडाभिः ॥ १९२ ॥ अथान्यदा च बहि-विर्निगतो गृहीत्वा जयसेनम् । पुरुषाभ्यां द्वाभ्यां दृष्टस्तत्राऽहं योगिरुपाभ्याम् ॥ १९३ ॥ संभाष्य पूर्वं दत्तो मम ताभ्यां प्रवरतम्बोलः । तस्मिन् समानीतमात्रे मतिसंमोहो मम जातः ॥ १९४ ॥ ततः कुमारसमेतस्तयोरनुमार्गमेव लग्नोऽहम् । जानामि नैव किञ्चिदपि विमोहितस्ताभ्यां पापाभ्याम् ॥ १९५ ॥
१. यातु । २. बालपालकः । ३. क्रीडयामि खेलयामि । ४. बहिः ।
सुरसुन्दरीचरित्रम्
प्रथमः परिच्छेदः
३३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org