________________
कस्स व धूया कह वा इहागया कह व मज्झ उज्जाणे । पडिया सि नहयलाओ साहेसु सवित्थरं एयं ॥ १३८ ॥ अह सा एवं भणिया गुरुसोया सज्झसेण अभिभूया । उम्मुक्कदीहसासा न किंचि पडिउत्तरं देइ ॥ १३९ ॥ अह पुणरुत्तं रन्ना पुट्ठाए तीए कहवि संलत्तं । ताय ! चएमि न वोत्तुं बहुदुखं निययवुत्तंतं ॥ १४० ॥ तहवि हु अलंधणीया आणा तायस्स तेण साहेमि । जंबुद्दीवे भरहे कुसग्गनयरम्मि नामेण ॥ १४१ ॥ अत्थि पुरं सुपसिद्धं तत्थ य नरवाहणो पुहइनाहो । रयणवई से देवी तीए धूया अहं ताय ! ॥ १४२ ॥ युग्मम् ॥ सुरसुंदरित्तिनामा पुव्विं दुव्विहियकम्मपरिणामा । वेरियसमेण केणइ पिसायरूवेण अवहरिया ॥ १४३ ॥
कस्य वा दुहिता कथं वा इहाऽऽगता कथं वा ममोद्याने । पतिताऽसि नभस्तलात् कथय सविस्तरमेतद् ॥ १३८ ॥ अथ सैवं भणिता गुरुशोका साध्वसेनऽभिभूता । उन्मुक्तदीर्धश्वासा न किञ्चिद् प्रत्युत्तरं ददाति ॥ १३९ ॥ अथ पुनरुक्तं राज्ञा पृष्टया तया कथमपि संलपितम् । . तात ! शक्नोमि न वक्तुं बहुदुःखं निजकवृत्तान्तम् ॥ १४० ॥ तथापि खलु अलङ्घनीयाऽऽज्ञा तातस्य तेन कथयामि । जम्बूद्वीपे भरते कुशाग्रनगरे नाम्ना ॥ १४१ ॥ अस्ति पुरं सुप्रसिद्धं तत्र च नरवाहनः पृथिवीनाथः । रत्नवती तस्य देवी तस्या दुहिताऽहं तात ! ॥ १४२ ॥ युग्मम् ॥ सुरसुन्दरीतिनाम्नी पूर्वं दुर्विहितकर्मपरिणामा । वैरिसमेन केनाऽपि पिशाचरूपेणाऽपहृता ॥ १४३ ॥ १. चएमि-शक्नोमि ।
४४६
एकादशः परिच्छेदः
सुरसुन्दरीचरित्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org