________________
हरिणिव्व जूहभट्ठा सतरलतारं दिसाओ पुलयंती ।
भणिया मए सुमहुरं कीस तुमं सुयणु ! बीहेसि ? ॥ १२० ॥ मा भद्दे ! कुणसु भयं थैवंपि, जणयनिविसेसो हं । कासि तुमं कत्तो वा इह पडिया मज्झ साहेसु ? ॥ १२१ ॥ अविय । सग्गाओ निवडिया किं सावप्पहया सुरंगणा तं सि । किं वावि भट्ठविजा विज्जाहरबालिया सुयणु ! ? ॥ १२२ ॥
तुहरूवदंसणुप्पन्नहरणबुद्धिस्स नहपयट्टस्स ।
विज्जाहरस्स कस्सवि किंवा हत्थाओ पब्भट्ठा ? ॥ १२३ ॥
साहेसु सुयणु ! एवं महंतकोऊहलं इमं मज्झ । नीसाहारा कह नहयलाओ पडिया इहुज्जाणे ? ॥ १२४ ॥ इय सा भणिया भूनाह ! मज्झ पडिउत्तरं अदाऊण । गुरुदुक्खसूयणपरं अंसुजलं मोत्तुमारद्धा ॥ १२५ ॥
हरिणीव यूथभ्रष्टा सतरलतारं दिशः पश्यन्ती
भणिता मया सुमधुरं कस्मात्त्वं सुतनो ! बिभेषि ? ॥ १२० ॥ जनकनिर्विशेषोऽहम् ।
मा भद्रे ! कुरु भयं स्तोकमपि, खलु
काऽसि त्वं कुतो वेह पतिता मम कथय ? ॥ १२१ ॥ अपि च । स्वर्गतो निपतिता किं शापप्रहता सुराङ्गना त्वमसि । किं वाऽपि भ्रष्टविद्या विद्याधरबालिका सुतनो ! ? ॥ १२२ ॥
तवरूपदर्शनोत्पन्नहरणबुद्धे-र्नभःप्रवृत्तस्य ।
विद्याधरस्य कस्याऽपि किं वा हस्ताद् प्रभ्रष्टा ? ॥ १२३ ॥
कथय सुतनो ! एतद् महत्कुतुहलमिदं मम । निःसाधारा कथं नभोतलात्पतितेहोद्याने ? ॥ १२४ ॥
इति सा भणिता भूनाथ ! मम प्रत्युत्तरमदत्त्वा । गुरुदुःखसूचनपरमश्रुजलं मोक्तुमारब्धा ॥ १२५ ॥
१. पश्यन्ती । २. थेवं = स्तोकम् । ३. शापप्रहता ।
सुरसुन्दरीचरित्रम्
Jain Education International
एकादशः परिच्छेदः
For Private & Personal Use Only
४४३ www.jainelibrary.org