________________
कस्स पुण एस सद्दो समुट्ठिओ एत्थ वणनिगुंजम्मि । इय चिंतंतो कोऊहलेण तत्तोमुहो चलिओ ॥ ११४ ॥ ताव य दिट्ठा भूपट्ठिसंठिया बउलपायवसमीवे । मुच्छानिमीलियच्छी अधरियसुरसुंदरीरूवा ॥ ११५ ॥ अहिणवजोव्वणउब्भेयसुंदरा सयलमणहरावयवा । पउमचुया इव लच्छी नरवर ! वरबालिया एक्का ॥ ११६ ॥ युग्मम् ॥ नूणं नहत्थलाओ निवडंतीए इमीए भूमीए । जुवईए पडिसद्दो समुट्ठिओ एस सहसत्ति ॥ ११७ ॥ कह मन्ने एरिसस्सवि जुवईरयणस्स एरिसाऽवत्था । विबुहजणसोयणिज्जा धी ! विहिणो विलसियं चित्तं ॥ ११८ ॥ इय चिंततेण मए सीयलजलसीयरेहिं संसित्ता । मिउपवणकरणविहिणा अह विहिया सा समासत्था ॥ ११९ ॥
कस्य पुनरेष शब्दः समुत्थितोऽत्र वननिकुञ्ज । इति चिन्तयन् कुतुहलेन तत्मुखश्चलितः ॥ ११४ ॥ तावञ्च दृष्टा भूपृष्ठसंस्थिता बकुलपादपसमीपे । मूर्छानिमीलिताक्षी अधरितसुरसुन्दरीरूपा ॥ ११५ ॥ अभिनवयौवनोद्भेदसुन्दरा सकलमनोहरावयवा । पद्मच्युतेव लक्ष्मी-नरवर ! वरबालिकैका ॥ ११६ ॥ युग्मम् ॥ नूनं नभस्तलात् निपतन्त्यामस्यां भूमौ । युवत्याः प्रतिशब्दः समुत्थित एष सहसेति ॥ ११७ ॥ कथं मन्ये ईदशस्यापि युवतीरत्नस्य ईदृशाऽवस्था । विबुधजनशोचनीया धिग् ! विधे-विलसितं चित्रम् ? ॥ ११८ ॥ इति चिन्तयता मया शीतलजलशीकरैः संसिक्ता । मृदुपवनकरणविधिना अथ विहिता सा समास्वस्था ॥ ११९ ॥
१. पउमं पद्मम् । २. शोचनीया खेदकारिका ।
एकादशः परिच्छेदः
सुरसुन्दरीचरित्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org