________________
निहुयगईए चलिया भएण कंपंततणुलया गाढं । वंचिय पाहरिए हं नीहरिया ताओ सिन्नाओ ॥ ८४ ॥ घित्तूण य एगदिसं चलिया घणतरुवणस्स मज्झेणं । निसुणंती बहुसावयभीसणसद्दे बहुविही(ह?)ए ॥ ८५ ॥ युग्मम् ॥ पवणाकंपियपायवचलंतपत्ताण सणसणारावं । सीहोरालिसमाणं मन्नंती वेविरसरीरा ॥ ८६ ॥ वेगेण य गच्छंती घणंधयाराए तीए रयणीए । दीहरघणतणओच्छाइयाए विसमाए भूमीए ॥ ८७ ॥ अवियाणियपरमत्था झडत्ति पडिया य एत्थ कूवम्मि । पिययम ! कयबहुपावा जीवा इव घोरनरयम्मि ॥ ८८ ॥ युग्मम् ॥ भवियव्वयावसेणं न मया गंभीरजलनिवुड्डावि । अगडस्स तडिं पाविय तत्थ निलुक्का अहं राय ! ॥ ८९ ॥
निःशब्दगत्या चलिता भयेन कम्पमानतनुलता गाढम् । वञ्चयित्वा प्राहरिकान्नहं निःसृता तस्मात् सैन्यात् ॥ ८४ ॥ . गृहीत्वा चैकदिशं चलिता घनतरुवनस्य मध्येन । निश्रुण्वन्ती बहुश्वापदभीषणशब्दान् बहुविधान् ॥ ८५ ॥ युग्मम् ॥ पवनाकम्पितपादपचलत्पत्राणां सणसणारावम् । सिंहौरालीसमानं मन्यमाना वेपमानशरीरा ॥ ८६ ॥ वेगेन च गच्छंती घनान्धकारायां तस्यां रजन्याम् । दीर्घघनतृणावच्छादितायां विषमायां भूमौ ॥ ८७ ॥ अविज्ञातपरमार्था झटिति पतिता चात्र कूपे । प्रियतम ! कृतबहुपापा जीवा इव घोरनरके ॥ ८८ ॥ ग्रुग्मम् ॥ भवितव्यतावशेन न मया गंभीरजलनिमग्नाऽपि । अवटस्य तटीं प्राप्य तत्र निलीनाऽहं राजन् ॥ ८९ ॥
१. निहुयं = निःशब्दं । २. प्राहरिकान् = यामिकान् । ३. ओराली = दीर्घमधुरध्वनिः । ४. दीर्घघनतृणावच्छादितायाम् । ५. निबुड्डा-निमग्ना । ६. अगडो-अयडो कूपः ।
सुरसुन्दरीचरित्रम्
एकादश: परिच्छेदः
४३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org