________________
अह तस्स दुट्ठभावं अन्नाऊणं तयं मए गहियं । तत्तो य पइदिणं सो उवयरइ ममं असुहभावो ॥ ७२ ॥ आगच्छइ एगंते परिहासकहाओ कहइ मह पुरओ । सवियारं च पलोयइ दंसइ अणुरत्तमप्पाणं ॥ ७३ ॥ अह अन्नदिणे पिययम ! पावेणं तेण मयणमूढेण । अगणिय कुलमज्जायं उज्झिय लजं सुदूरेण ॥ ७४ ॥ बहु मन्निय अविवेयं भणिया एगतसंठिया एवं । वम्महपीडियदेहो सरणं तुह सुयणु ! अल्लीणो ॥ ७५ ॥ नियअंगसंगमेणं सहलं मम कुणसु जीवियं अज्ज । तुह आयत्ता पाणा सव्वस्सवि सामिणी तं सि ॥ ७६ ॥ तुह सुयणु ! किंकरो हं आणाकारी य परियणो सव्वो । गाढाणुरागरत्तं किं बहुणा इच्छसु ममंति ॥ ७७ ॥
अथ तस्य दुष्टभावमज्ञात्वा तन्मया गृहीतम् । ततश्च प्रतिदिनं स उपचरति मामशुभभावः ॥ ७२ ॥ आगच्छति एकान्ते परिहासकथाः कथयति मम पुरतः । सविकारं च प्रलोकयति दर्शयति अनुरक्तात्मानम् ॥ ७३ ।। अथान्यदिने प्रियतम ! पापेन तेन मदनमूढेन । अगणय्य कुलमर्यादामुञ्झित्वा लज्जां सुदूरेण ॥ ७४ ॥ बहु मत्वाऽविवेकं भणिता एकान्तसंस्थितैवम् । मन्मथपीडितदेहः शरणं तव सुतनो ! आलीनः ॥ ७५ ॥ निजाङ्गसंगमेन सफलं मम कुरु जीवितमद्य । तवाऽऽयता प्राणाः सर्वस्याऽपि स्वामिनी त्वमसि ॥ ७६ ॥ तव सुतनो ! किङ्करोऽहमाज्ञाकारी च परिजन: सर्वः । गाढानुरागरक्तं किं बहुना इच्छ मामिति ॥ ७७ ॥ १. अज्ञात्वा । २. उपचरति-संमानयति । ३. आलीन:-आगतः ।
सुरसुन्दरीचरित्रम्
एकादश: परिच्छेदः
४३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org