SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ तदवत्थं तं दट्टुं हाहासदो समुट्ठिओ तत्थ । तं सोउं नहवाहणखयरोवि समागओ तत्थ ॥ ८४ ॥ नाऊण विसवियारं मंते तंते पउंजई विविहे । विसनिम्महणे मणिणो आबंधई तीए अंगम्मि ॥ ८५ ॥ न य तीए कोवि गुणो जाओ विसंघारियाए बालाए । आहूया अह बहवे विसमंतर्वियाणया खयरा ॥ ८६ ॥ सव्वायरलग्गेहिवि तेहिवि पउणा न सक्किया काउं । ताहे मयत्ति काउं मयकिच्चं तीए काऊण ॥ ८७ ॥ नीया पेयवणम्मी नहवाहणपरियणेण सा बाला । चीयाए पक्खिविउं तत्तो उद्दीविओ जलणो ॥ ८८ ॥ युग्मम् ॥ एत्तियमेत्तं साहइ सो देवो जाव चित्तवेगस्स । धणदेव ! ताव निसुणसु जं संवित्तं तहिं तइया ॥ ८९ ॥ तदवस्थां तां दृष्ट्वा हाहाशब्दः समुत्थितस्तत्र । तं श्रुत्वा नभोवाहनखेचरोऽपि समागतस्तत्र ॥ ८४ ॥ ज्ञात्वा विषविकारं मंत्रान् तंत्राणि प्रयुक्ते विविधानि । विषनिर्मथने मणय आबध्नाति तस्या अङगे ॥ ८५ ॥ न च तस्याः कोऽपि गुणो जातो विषघारिताया बालायाः । आहूताऽथ बहवो विषमन्त्रविज्ञायकाः खेचराः ॥ ८६ ॥ सर्वादरलग्नैरपि तैरपि प्रगुणा न शक्या कर्तुम् ।। तदा मृतेति कृत्वा मृतकृत्यं तस्याः कर्तुम् ॥ ८७ ॥ नीता प्रेतवने नभोवाहनपरिजनेन सा बाला । चितायां प्रक्षिप्य तत उदीप्तो ज्वलनः ॥ ८८ ॥ युग्मम् ॥ एतावन्मात्रं कथयति स देवो यावत् चित्रवेगस्य । धनदेव ! तावत् निश्रृणु यत् संवृतं तस्मिन्तदा ॥ ८९ ॥ १. विकारम् । २. मन्त्रान्=देवादिसाधनानि । ३. तन्त्राणि-ओषधीन् । ४. प्रयुडक्ते । ५. धारियाए प्राकारितया व्याप्तयेत्यर्थः । ६. विज्ञायका: वेत्तारः। ७. विसहरउवयारेहिवि । ८. प्रगुणा । सुरसुन्दरीचरित्रम् नवमः परिच्छेदः ३५३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy