________________
जइया य तुमं भद्दे ! छूढा अंतेउरम्मि जुवरन्ना । तइयच्चिय खयरेणं मायाइ सुमंगलेण अहं ॥२१० ॥ भुत्ता पभूयकालं धणवइदेवेण बोहिया तत्तो । जाया चंदजसाए पयमूले सुयणु ! पव्वइया ॥२११ ।। एसावि अणंगवई धम्मं सोऊण भवभयुव्विग्गा ।। नियभत्तुणा समेया पव्वइया एत्थ गच्छम्मि ॥२१२ ।। ता सुयणु ! न सुविणमिणं सच्चं चिय जं इमं दिठं । एसो सो अम्ह गुरु सुधम्मनामो महासत्तो ॥२१३ ।। तत्तो दोवि जणाई सुधम्मसूरिस्स परमविणएणं । वंदंति हरिरिसाइं पयकमलं सयलदोसहरं ॥२१४ ॥ तत्तो संवेयकरिं गुरुणो सोऊण देसणं पवरं । पडिबुद्धाइं दोन्निवि कमेण पव्वाइयाइंति ॥२१५ ।।
यदा च त्वं भद्रे ! क्षिप्ताऽन्तःपुरे युवराजेन । तदैव खेचरेण मायया सुमङ्गलेनाऽहम् ॥ २१० ॥ भुक्ता प्रभूतकालं धनपतिदेवेन बोधिता ततः । जाता चन्दयशसः पादमूले सुतनो ! प्रव्रजिता ॥ २११ ॥ एषाऽपि अनङ्गवती धर्मं श्रुत्वा भवभयोद्विग्ना । निजभर्ना समेता प्रव्रजिताऽत्र गच्छे ॥ २१२ ॥ तस्मात् सुतनु ! न स्वप्नमिदं सत्यमेव यत्त्वयेदम् दृष्टम् । एष सोऽस्माकं गुरुः सुधर्मनामा महासत्त्वः ॥ २१३ ॥ ततो द्वावपि जनौ सुधर्मसूरेः परमविनयेन । वन्देते हर्षितौ पदकमलं सकलदोषहरम् ॥ २१४ ॥ ततः संवेगकरिं गुरोः श्रुत्वा देशनां प्रवराम् । प्रतिबुद्धौ द्वावपि क्रमेण प्रव्रजिताविति ॥ २१५ ॥
३३२
अष्टमः परिच्छेदः
सुरसुन्दरीचरित्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org