________________
सोऊण सुधम्मनामो धम्ममई गुरुगिरं निसामित्ता । संसारभडेव्विग्गो पणमिय सूरिं इमं भणइ ॥ ११४ ॥ इच्छामि तुम्ह मूले निरवज्जं गिहिउं सुपव्वज्जं । जहिं अणुन्नाओ भीओ जरजम्ममरणाणं ॥ ११५ ॥ भणियं गुरुणा य तओ होउ अविग्धं तुहेत्थ वत्थुम । अम्मापिऊहिं मुक्को अह सो पव्वाविओ गुरुणा ॥ ११६ ॥ अब्भसियदुविहेसिक्खो संजमतवविणयकरणउज्जुत्तो विहिणागुरुपौमूले अहिज्जिउं सो समाढत्तो ॥ ११७ ॥ सिग्घ महामई सो जाओ सुत्तत्थतदुमभयविहिन्नू । चुद्दसव्वी गुरुसाहुसम्मओ गुणगणावासो ॥ ११८ ॥ नाऊण जोगंयं से सुहरिक्खे सूरिणा नियपयम्मि । अहिसित्तो सूरीवि य संलिहियतणू गओ मोक्खं ॥ ११९ ॥ श्रुत्वा सुधर्मनामा धर्ममति- गुरुगिरं निशम्य । संसारभयोद्विग्नः प्रणम्य सूरिमिदं भणति ॥ ११४ ॥ इच्छामि युष्माकं मूले निरवद्यं ग्रहीतुं सुप्रव्रज्याम् । जनकाभ्यामनुज्ञातो भीतः जराजन्ममरणानाम् ॥ ११५ ॥ भणितं गुरुणा च ततो भवत्वविघ्नं तवात्र वस्तुनि । अम्बापितृभ्यां मुक्तोऽथ सः प्रव्राजितो गुरुणा ॥ ११६ ॥ अभ्यसितद्विविधशिक्षः संयमतपोविनयकरणोद्युक्तः । विधिना गुरुपादमूलेऽध्येतुं स समारब्धः ॥ ११७ ॥ शीघ्रं महामतिः स जातः सूत्रार्थतदुभयविधिज्ञः । चतुर्दशपूर्वी गुरुसाधुसम्मतो गुणगणावासः ॥ ११८ ॥ ज्ञात्वा योग्यतां तस्य शुभर्क्षे सूरिणा निजपदे । अभिषिक्तः सूरिरपि संलेखिततनुर्गतो मोक्षम् ॥ ११९ ॥
१. धर्मे मतिर्यस्य स धर्ममतिः । २. भउव्विग्गो भयोद्विग्नः । ३. निरवद्यां = निर्दोषाम् । ४. प्रव्राजितः = दीक्षितः । ५. ग्रहणासेवनारूपा द्विविधा शिक्षा । ६. पामूलं = पादमूलम् । ७. अध्येतुम् । ८. विहिन्नू - विधिज्ञः । ९. योग्यताम् ।
३१६
Jain Education International
अष्टमः परिच्छेदः
For Private & Personal Use Only
सुरसुन्दरीचरित्रम्
www.jainelibrary.org