SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ अविय । सम्मदंसणमूलो पंचमहव्वयमहेल्लदढखंधो । संमिईगुत्तीतवसंजमाइसाहापसाहिल्लो ॥ १०८ ॥ विविहाभिग्गहगोच्छो मणहरसीलंगपत्तसोहिल्लो । वरलद्धिकुसुमकलिओ सग्गऽपवग्गाइसुहफलओ ॥ १०९ ॥ चारित्तकप्परुक्खो वित्थरओ साहिओ जिणाणाए । दुहतावतावियाणं जियाण सरणं अणन्नसमं ॥ ११० ॥ तिसृमि: कुलकम् । चवलाई इंदियाइं दुक्खनिमित्तं च विसयसंगोवि । कोहाणी कसाया निबंधणं दोग्गइए उ ॥ १११ ॥ एक्स कओ पमाओ जीवं पाडेइ भवसमुद्दम्मि । भीमो य भवो बहुसो पयासिओ तीए परिसाए ॥ ११२ ॥ सूरिस्स तस्स वयणं परमामयसच्छहं निसामित्ता | संविग्गा सा परिसा जहागयं पडिगया सव्वा ॥ ११३ ॥ अपि च । सम्यक्दर्शनमूलः पञ्चमहाव्रतमहान्दृढस्कन्धः । समितिगुप्तितपः संयमादयशाखाप्रशाखावान् ॥ १०८ ॥ विविधाऽभिग्रहगुच्छ ः मनोहरशीलाङ्गपत्रशोभावान् । वरलब्धिकुसुमकलितः स्वर्गापवर्गादिशुभफलकः ॥ १०९ ॥ चारित्रकल्पवृक्षो विस्तरतः कथितो जिनाज्ञया । दुःखतापतप्तानां जीवानां शरणमनन्यसमम् ॥ ११० ॥ तिसृभिः कुलकम् ॥ चपलानि इन्द्रियाणि दुःखनिमित्तं च विषयसङ्गोऽपि । क्रोधादयः कषाया निबन्धनं दुर्गत्यास्तु ॥ १११ ॥ एकशः कृतः प्रमादः जीवं पातयति भवसमुद्रे । भीमश्च भवो बहुशः प्रकाशितस्तस्यां पर्षदि ॥ ११२ ॥ सूरेस्तस्य वचनं परमामृतसदृशं निशम्य । संविग्ना सा पर्षद् यथागतं प्रतिगताः सर्वाः ॥ ११३ ॥ १. महल्लो=महान् । २. समितिगुप्तितपः संयमादय एव शाखाप्रशाखा यस्य स तथा । ३. गुच्छ:- स्तबकः । ४. रुक्खो वृक्षः । ५. सकृत् । सुरसुन्दरीचरित्रम् Jain Education International अष्टमः परिच्छेदः For Private & Personal Use Only ३१५ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy