________________
एवं च भणंतेणं तेणं आवाहियाई सत्थाइं । अहिमंतिय मंतेहिं मुंचइ इक्किक्कयं कमसो ॥ ४२ ॥ अविय । उट्ठितफुलिंगालं फुरंतजालासहस्संवलियं । अग्गेयं अइभीमं मज्झ वहट्ठाए पट्ठवियं ॥ ४३ ॥ तंपि हु मह आसन्ने मणिप्पभावाओ होउमसमत्थं । पासे संभमिऊणं विज्झायं झत्ति तत्तो य ॥ ४४ ॥ वारुणवायव्वाइं पट्ठवियाई कमेण सत्थाई । ताणिवि मणिप्पभावा दूरिच्चिय मह विलीणाई ॥ ४५ ॥ अह ताणि अमोहाणिवि पंडिहयसत्तीणि दट्टु सत्थाणि । जाओ विच्छायो रायसुओ विम्यक्खित्तो ॥ ४६ ॥ खणमेगमच्छिऊणं पुणोवि सो एरिसं समुल्लवइ । रे खयराहम ! दप्पं मा हु करिज्जासि नियचित्ते ॥ ४७ ॥
एवञ्च भणता तेनाऽऽरचितानि शस्त्राणि । अभिमन्त्र्य मन्त्रैर्मुञ्चति एकैकं क्रमशः ॥ ४२ ॥ अपि च । उत्तिष्ठत्स्फुलिङ्गं स्फुरन्वालासहस्त्रसंवलितम् । आग्नेयमतिभीमं मम वधार्थं प्रस्थापितम् ॥ ४३ ॥ तमपि खलु ममाऽऽसन्ने मणिप्रभावात् भूत्वाऽसमर्थम् । पार्श्वे संभ्रम्य विध्यातं झटिति ततश्च ॥ ४४ ॥ वारुणवायव्यानि प्रस्थापितानि क्रमेण शस्त्राणि । तान्यपि मणिप्रभावात् दूरैव मम विलीनानि ॥ ४५ ॥ अथ तानि अमोघान्यपि प्रतिहतशक्तिनी दृष्ट्वा शस्त्राणि । जातो विच्छायमुखो राजसुतो विस्मयाऽऽक्षिप्तः ॥ ४६ ॥ क्षणमेकमासित्वा पुनरपि स ईदशं समुल्लपति । रे खचराधम ! दर्पं मा खलु कुरु निजचित् ॥ ४७ ॥
१. आवाहियं = आरचितम् । २. अभिमन्त्र्य । ३. उत्तिष्ठन्त ऊर्ध्व गच्छन्तो ये स्फुलिङ्गा अग्निकणास्ते सन्त्यस्य तत्तथा । ४. संवलितं = व्याप्तम् । ५. वधार्थम् । ६. प्रस्थापितम् = प्रेषितम् । ७. विध्यातं = विनष्टम् । ८. अमोधानि= अव्यर्थानि । ९. प्रतिहता विनष्टा शक्तिर्येषां तानि । १०. विस्मयाऽऽक्षिप्तः ।
३०४
Jain Education International
अष्टमः परिच्छेदः
For Private & Personal Use Only
सुरसुन्दरीचरित्रम्
www.jainelibrary.org