________________
एयम्मि वसंताणं जीवाणं विसयमोहियमणाणं । संजोगविप्पओगा अणंतसो भद्द! जायंति ॥ २०४ ॥ परमत्थओ य दुक्खं जायइ नियदुद्रुकम्मुणा जणियं । हवइ हु निमित्तमित्तं सेसं पुण बैज्झअत्थम्मि ॥ २०५ ॥ ता तेण नहयरेणं न मज्झपरमत्थओ कयं दुक्खं । किंतु नियकम्मजणियं एवं भावेसु नियचित्ते ॥ २०६ ॥ अविय। “पत्थरेणाहओ कीवो पत्थरं डेक्कुमिच्छई । मिगारिओ सरं पप्प सँरुप्पत्तिं विमग्गई ॥ २०७ ॥" ता भद्द! जिणाणाए कम्मसमुच्छेयणम्मि उज्जमसु । तत्तो विलीणकम्मो पाविहिसि न एरिसं दुक्खं ॥ २०८ ॥ इय केवलिया भणिओ पडिबुद्धो धणवई इमं भणइ । इच्छामो अणुसढेि पव्वजं देह मे भयवं ! ॥ २०९ ॥
एतस्मिन् वसतां जीवानां विषयमोहितमनसां । संयोगविप्रयोगौ अनंतश: भद्र ! जायेते ॥ २०४ ॥ परमार्थतश्च दुःखं जायते निजदुष्टकर्मणा जनितम् । भवति खलु निमित्तमात्रं शेषं पुनर्बाह्यार्थे ॥ २०५ ॥ तस्मात् तेन नभश्चरेण न मम परमार्थतः कृतं दुःखम् । किन्तु निजकर्मजनितमेव भावय निजचित्ते ॥ २०६ ॥ अपि च ! प्रस्तरेणाहत: क्लीबः प्रस्तरं दंष्टुमिच्छति । मृगारिः शरं प्राप्य शरोत्पत्तिं विमार्गयति ॥ २०७ ॥ तस्मात् भद्र ! जिनाज्ञया कर्मसमुच्छेदने उद्यम । ततो विलीनकर्मा प्राप्स्यसि नेदृशं दुःखम् ॥ २०८ ॥ इति केवलिना भणितः प्रतिबुद्धो धनपतिरिदं भणति । इच्छामोऽनुशास्तिं प्रव्रज्यां देहि माम् भगवन् ॥ २०९ ॥ १. कम्मुणा-कर्मणा । २. बझो बाह्यः । ३. पत्थरो-प्रस्तर:=पाषाणः । ४. क्लीबः, प्रस्तावादत्र श्वा । ५. डक्कुं-दंष्टुम् । ६. पप्प-प्राप्य । ७. स्वरस्य शब्दस्योत्पत्तिम् । ८. अनुशास्तिम्=आज्ञाम् ।
सुरसुन्दरीचरित्रम्
षष्ठः परिच्छेदः
२४७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org