________________
ताय! तुमंपि हु मह खमसु संपयं पणयपरवसाइ मए । पुव् िकिलेसिओ जं परलोयं पत्थिया अहयं ॥ १६८ ॥ जणणीसमहियनेहे ! सोमलए! खम किलेसिया जं सि । सुसिणिद्धसहीसंदोह ! खमसु जं किंचि अवरद्धं ॥ १६९ ॥ खणमित्तदिट्ठ! वल्लह ! हिययभंतरपविट्ठ ! निसुणेसु। पत्थेमि किंचि सामिय! पाणच्चायं करेमाणी ॥ १७० ॥ तुह संगमरहियाए एसो जम्मो हु ताव वोलीणो । अन्नभवे पुण सामिय! तं चिय मह वल्लहो हुज्जा ॥ १७१ ॥ अन्नं भणामि सामिय! जइवि हु अइनिठुरं इमं वयणं । तहवि हु तुह आंवयावारणत्थमेसो म्ह निब्बंधो ॥ १७२ ॥ नीसर मह हिययाओ रुद्धे कंठम्मि पांसएणहवा । सक्केसि न नीसरिउ सामिय! मह पाणवल्लहय! ॥ १७३ ॥
तात ! त्वमपि खलु मम क्षमस्व साम्प्रतं प्रणयपरवशया मया । पूर्वं क्लेशितो यत्परलोकं प्रस्थिताऽहकम् ॥ १६८ ॥ जननीसमधिकस्नेहे ! सोमलते ! क्षमस्व क्लेशिता यदसि । सुस्निग्धसखीसन्दोह ! क्षमस्व यत्किंचिदपराद्धम् ॥ १६९ ॥ क्षणमात्रदृष्ट ! वल्लभ ! हृदयाभ्यन्तरप्रविष्ट ! निश्रृणु । प्रार्थयामि किञ्चित् स्वामिन् ! प्राणत्यागं कुर्वती ॥ १७० ॥ तवसङ्गमरहिताया इदं जन्म खलु तावत् व्युत्क्रान्तम् । अन्यभवे पुनः स्वामिन् त्वमेव मम वल्लभो भवतु ॥१७१॥ अन्यं भणामि स्वामिन् ! यद्यपि खलु अतिनिष्ठुरमिदं वचनम् । तथापि खलु तव आपत्वारणार्थमेष मम निर्बन्धः ॥ १७२ ॥ निस्सर मम हृदयात् रुद्धे कंठे पाशकेनाथवा । शक्यसे न निःसर्तुं स्वामिन् ! मम प्राणवल्लभक ! ॥ १७३ ॥
-
१. आवया आपत् । २. निर्बन्धः आग्रहः । ३. पाशकेनरज्ज्वा ।
सुरसुन्दरीचरित्रम्
चतुर्थः परिच्छेदः
१५७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org