SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ मन्त्रिस्सर वीवाहं जं सा अण्णस्स, अच्छउ सुदूरं । सोउं पउत्तिमेयं मन्ने जीयं परिच्चयइ ॥ १२६ ॥ मह वयणं सोऊणं गुरुदुक्खसमाहया भणइ तत्तो । वियैलंतसकज्जलनयणसलिलसामलियगंडयला ॥ १२७ ॥ जं भणसि तुमं भद्दे ! मज्झवि हिययम्मि फुरइ तं सच्चं । नवरं हयासविहिणो वसेण अइदुक्करं जायं ॥ १२८ ॥ युग्मम् ॥ तत्तो अइगुरुसोगं रुयमाणिं पिच्छिऊण नियदइयं । वज्जरियममियगइणा सुंदरि ! किं एत्थ रुन्नेणं ? ॥ १२९ ॥ किं मह थोवं दुक्खं नवरं न चएमि अन्नहाकाउं । सुइरंपि चिंतिऊणवि लभामि नन्नं उवायंति ॥ १३० ॥ तम्हा महिलागाहं मोत्तूणं आय निरूवे । रायसुयस्स अदाणे दोसे य गुणे विचिंतेसु ॥ १३१ ॥ मन्ता विवाहं यत् साऽन्यस्य, आस्तां सुदूरम् । श्रुत्वा प्रवृतिमेतां मन्ये जीवितं परित्यजेत् ॥ १२६ ॥ मम वचनं श्रुत्वा गुरुदुःखसमाहता भणति ततः । विचलत्सकज्जलनयनसल्लिश्यामलितगण्डस्थला ॥ १२७ ॥ यद् भणसि त्वं भद्रे ! ममापि हृदये स्फुरति तं सत्यम् । नवरं हताशविधेर्वशेनातिदुष्करं जातम् ॥ १२८ ॥ युग्मम् ॥ ततोऽतिगुरुशोकां रुदतीं प्रेक्ष्य निजदयितां । कथितममितगतिना सुन्दरि ! किमत्र रुदितेन ? ॥ १२९ ॥ किं मम स्तोकं दुःखं नवरं न शक्नोम्यिन्यथाकर्तुम् । सुचिरमपि चिन्तयित्वाऽपि लभे नान्यमुपायमिति ॥ १३० ॥ तस्मात् महिलाग्राहं मुक्त्वा आयतिं निरूपय । राजसुतस्य दाने दोर्षांश्च गुणान् विचिन्तय ॥ १३१ ॥ १. परित्यजेत् । २. विचलत् सकज्जलाभ्यां नयनाभ्यां सकाशात् यत्सलिलं तेन श्यामलि गण्डतले यस्याः सा । ३. रुदितेन । ४. शक्नोमि । ५. सुचिरमपि । ६. आयतिः - उत्तरकालः । १५० Jain Education International चतुर्थः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy