________________
भत्तीए पणमिऊणं करेमु नियमाणुसत्तणं संहलं । पेच्छामो जिणर्जत्तं सुयखयरोहेणं किजंतं ॥ ५९ ॥ युग्मम् । अह सव्वेहिवि भणियं एवं होउत्ति सुठु ते भणियं । एत्थंतरम्मि पत्तो मह धाइसुओ बलो नाम ॥ ६० ॥ आगम्म तेम भणियं पिउणा ते चित्तवेग! संलत्तं । एसो ह रयणसंचयवेत्थव्वो सयलखयरजणो ॥ ६१ ॥ न्हाओ विलित्तदेहो सुहनेवत्थो महाविभूईए । चलिओ जिणजत्ताए आसन्ने सिद्धकूडम्मि ॥ ६२ ॥ तेण समं अम्हेवि हु चलिया ता सिग्घमेव आगच्छ । कयण्हाणाइविहाणा जेण समं चेव गच्छामो ॥ ६३ ॥ तव्वयणं सोऊणं नियगेहे आगओ पिउसमीवे । तेवि य मज्झ वयंसा नियनियगेहेसु संपत्ता ॥ ६४ ॥
भक्त्या प्रणम्य कुर्मो निजमनुष्यत्वं सफलम् । प्रेक्षामहे जिनयात्रां शुभखेचरौघेन क्रियमाणाम् ॥ ५९ ॥ युग्मम् ॥ अथ सवैरपि भणितमेवं भवत्विति सुष्ठु तव भणितम् । अत्रान्तरे प्राप्तो मम धात्रीसुतो बलो नामा ॥ ६० ॥ आगम्य तेन भणितं पित्रा तव चित्रवेग ! संलप्तम् । एष खलु रत्नसञ्चयवास्तव्यः सकलखेचरजनः ॥ ६१ ॥ स्नातो विलिप्तदेहः शुभनेपथ्यो महाविभूत्या । चलितो जिनयात्रायैऽऽसन्ने सिद्धकूटे ॥ ६२ ॥ तेन समं वयमपि खलु चलितास्तस्मात्शीघ्रमेव आगच्छ । कृतस्नानादिविधाना येन सममेव गच्छामः ॥ ६३ ॥ तद्वचनं श्रुत्वा निजगेहेऽऽगत: पितृसमीपे । तेऽपि च मम वयस्या निजनिजगेहेषु संप्राप्ताः ॥ ६४ ॥ १. सफलम् । २. जत्ता-यात्रा । ३. ओघ:-समूह । ४. धात्रीसुतः । ५. संलप्तम् उक्तम्। ६. वास्तव्यः । ७. नेपथ्यं वस्त्रम् ।
सुरसुन्दरीचरित्रम्
तृतीयः परिच्छेदः
९७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org