________________
षड्भाषाचन्द्रिकायां 'ऐचः' इत्यनुवर्तते । “अइ' इति च । दैत्यादिष्वादेरचः अइ इत्ययमादेशो भवति । पृथक्त्वान्नित्यम् । दइँचो । दैत्यः । वइअब्भो । वैदर्भः । इत्यादि । दैत्यादि-दैत्य । दैन्य । दैवत । कैतव । वैदर्भ । वैदेह । ऐश्वर्य । वैजनन । भैरव । वैतालीय । वैदेश । वैश्वानर । खैर । वैशाख । वैशाल । स्थैर्य । चैत्य । इत्यादि। चैत्यविशेषे न भवति । चेत्तं ॥ मौस्व आत् ॥ १।२।१०६ ॥ अत्रैच आत्वं भवति । गौरवप्रियः । गारवप्पिओ ॥ पौरगे चाउत् ॥ १।२ । १०७॥
पौरादिष्वेव॑श्चकाराद् गौरवे च अउ इत्यादेशो भवति । गौरवप्रियः । गउरअप्पिओ । पौरः । पंउरो । कौवः । कउरवो । इत्यादि। पौरादि-पौर । सौर । मौलि । कौरव । गौड । कौल । कौशल । पौरुष । कौक्षेयक । सौध । मौन । गौरव । इत्यादि । स्थविराय॑स्कारयोर्विशेषः ॥
एत् साज्झलात्रयोदशगेचः ॥ १।३।१॥
त्रयोदशादिष्वादेरचः साज्झला सखरव्यञ्जनेन परेण सहैत्वं भवति । थेरो । स्थविरो वृद्धो ब्रह्मा वा । अत्र 'कग-' इति सलोपे थकारस्थाकारस्य साच्कवकारस्य च स्थाने एकारः । एवं सर्वत्र साच्कपरसवर्णस्य पूर्वाचश्च स्थाने त्रयोदशादिष्वेकारः कल्पनीयः । एक्कारो । अयस्कारः । इत्यादि । त्रयोदशादि-त्रयोदश । स्थविर । अयस्कार । विचकिल । त्रयोविंशति । त्रयस्त्रिंशत् । इत्यादि । विचकिलेत्यत्र तैलादिपाठाद् द्वित्वे । वेइल्लो । मुद्धविअइल्लवसूणपुंजा इति
१M. drops 'अइ' इति च । २ इत्यादेशो M. ३ दइच्छो । M. ४ वादेरेच° M., T. ५ पऊरो M. ६T. has सौरः । सऊरो in place of कौरवः । कउरवो। ७ P. and My. drop सौर. ८ 'यस्कारशब्दयों M., T. ९ ब्रह्म वा M.;बंहो T. वा T. १० श्वावस्थाने R.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org