________________
अजन्तपुंल्लिङ्गाः ।
सर्वत्र दीर्घ ह्रस्वयोर्व्यत्ययोनुसन्धेयः । प्रकृतमनुसरामः । कुसुमप्रकरः । कुसुमप्पअरो । कुसुमपअंरो ॥
प्रमुक्तगे ।। १ । ४ । ९१ ॥
"
'वा से' इति सर्वमनुवर्तते । प्रमुक्तादिषु समासे यथादर्शनं व्यञ्जनस्य द्वित्वं वा स्यात् । प्रमुक्तः । पम्मुक्को । पमुक्को | अत्र 'कः शक्तइत्यादिना स्तोः कः । सैप्पवासो । सपवासो । बद्धफलो । वद्धफळो । बद्धफलः । मळअस्सिहरिसिहंडो । मलअसिहरिसिहंडो । मलयशिखरिशिखण्डः । त्रैलोक्यनाथः । तेलोक्कणाहो । तेळोक्कणाहो । सपरितापः । सप्परितावो । सपरितावो । परवशः । परव्वसो । परवसो । प्रतिकूलः । पडिक्कूळो । पडिकूळो । अदर्शनः । अहंसणो । अदंसणो । अत्र वक्रादित्वाद्विन्दुः । आकृतिगणत्वात् । पफुल्लम् । प्रप्फुल्लं । पफुल्लं । सपरिहासम् । सप्परिहासं । सपरिहासं । इत्यादि सिद्धम् । ननु पडि - कूळ इत्यत्र लोपलक्षणलक्षितत्वात् 'प्रायो लुक् —' इति कलोपः किंमिति न । उच्यते । अत्र सूत्रे समासे तु वाक्यविभक्त्यपेक्षया भिन्नपदत्वमपि भवतीत्युक्तत्वात् यदा भिन्नपदत्वं तदा कादीनामादित्वाल्लोपो न भवति । एकपदत्वपक्षे तु लोप एवेत्युभयमप्यस्तीति संतोष्टव्यम् ॥ दैवगेखौ । १ । ४ । ९२ ॥
|
-'
दैवादिष्वनादेर्यथादर्शनं व्यञ्जनस्य द्वित्वं वा स्यात् । दैवपरः । देव्वपरो । देवपरो । व्याकुलः । वाऊलो । वाउळो । नीडः । नेड्डो । नेडो । अत्र ' एल्वीडनीडकीदृश इत्यादिना ईकारस्य एकारः । निहितः । णिहित्तो । णिहिओ । स्थूलः । थुल्लो । थूलो | अत्र 'कग -' इति सलोपः । ननु थुल्लो इत्यत्र "स्तौ' इत्युत ओत्वं किमिति ने' । बहुलाधिकारात् । अत्रैव
१ M. has इत्याद्यूह्यम् after it. २ सप्पळावो । सप्रलापः । M. ३ बद्धफलः । बद्धफळो । बद्धफलो । M. ४ वक्रादेश्वाकृति M. ५ कस्मान्न भवति M. तत्र M. ७ नेडो । नेड्डो । M. ८ईत एत् । M. ९ थूलो । थुलो | M. १० स्थाली for स्तौ M. ११ M, adds भवति after it.
Jain Education International
४७
For Private & Personal Use Only
www.jainelibrary.org