________________
षड्भाषाचन्द्रिकायां
अथ द्वित्वविधिः ॥ 'रितो द्वित्वल्' इत्यतः' 'द्वित्वल्' इत्यधिकृत्य शेषादेशस्याहोचोखोः ॥१।४। ८६॥
संयुक्तयोरेकतरस्य लोपे योवशिष्यते स शेषः । तस्य संयुक्तादेशस्य च अहः हकाररेफवर्जितस्य अचः खरात् परस्य अखोरनादौ वर्तमानस्य द्वित्वं स्यात् । शेषे । समस्तः । समत्तो । इत्यादि । आदेशे । रक्तः । रग्गो । इत्यादि । 'अहः' इति किम् । विह्वलः । विहळो । धैर्यम् । धीरं । 'अचः' इति किम् । वयस्यः । वअंसो । अत्र वक्रादित्वाद्विन्दुः । 'अखोः' इति किम् । णाणं ॥
दीर्घान्न ॥ १।४। ८७ ॥
लाक्षणिकादलाक्षणिकाच्च दीर्घात् परयोः शेषादेशयोर्द्वित्वं न स्यात् । निश्वासः । णीसासो । अत्र 'शोलुप्त-' इति दीर्घविधानालाक्षणिकत्वम् । अलाक्षणिकात् । ईश्वरः । ईसरो । पार्थः । पासो । इत्यादि । अलाक्षणिकाद् द्वित्वाभावः प्रयोगतोनुसर्तव्यः ॥ कर्णिकारे णो वा ॥ १।४।८८॥
अत्र णग्रहणमुत्तरार्थम् । कर्णिकारे शेषस्य द्वित्वं वा स्यात् । कणिआरो। कण्णिआरो॥
वा से ॥१।४।९०॥
से समासे शेषादेशयोद्वित्वं वा स्यात् । गइग्गामो । णइगामो । नदीग्रामः । णइगामो इत्यत्र
दिहौ मिथस्से ॥१।१।१८॥ से समासे दिही दीर्घहखौ मिथोन्योन्यं बहुलं स्तः । एवं समासेषु १ इत्यधिकृत्य M. २ भवति M. ३ भवति M. ४ °विधानाद्दीर्घस्य लाक्षणिकालाक्ष° M. ५ M. has इत्यागृह्यम् after लाक्षणिकत्वम्. ६ M. has 'द्वित्वल्' इत्यनुवर्तते before it. ७ नदीग्रामः । णईगामो । णइग्गामो M. ८ भवतः M.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org