SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ अजन्तपुंलिङ्गाः । अत्रैकारस्येकारः स्यात् । गैअधीरो । गतधैर्यः । पक्षे जः। गअधिज्जो ॥ तूर्यदशाहशौण्डीर्ये ॥ १।४।६०॥ एषु स्तो ३: स्यात् । तूरघोसो । तूर्यघोषः । दसारो । दशार्हः । पआसिअसोण्डीरो । अत्र 'अहः' इति रस्य न द्वित्वम् । प्रकाशितशौण्डीर्यः ।। बाष्पे होश्रुणि ॥ १। ४ । ६१ ॥ अश्रुवाचिनि बाष्पशब्दे स्तोर्हः स्यात् । बाहो। 'अश्रुणि' किम् । बप्फो । ऊष्मा । अत्र 'प्पस्पोः--' इति फः ॥ कार्षापणे ॥ १।४।६२ ॥ अत्र स्तोर्हः स्यात् । काहावणो । कहावणो। कहावणो इत्यत्र 'संयोगे' इति पूर्वमेव हवः पश्चादादेशः । यद्वा कर्षापणशब्दाद्वा सिद्धिः॥ न वा तीर्थदुःखदक्षिणदीर्घ ॥ १। ४ । ६३ ॥ एषु स्तोर्हत्वं न वा विकल्पेन भवति । तीह इति स्थिते । 'ईतः काश्मीरहरीतक्योालौ' इत्यतः 'ईतः' इत्यधिकृत्य तीर्थे ह्यूल ॥१।२। ५५॥ अत्र युक्तस्य हि हकारे सति ईकारस्य ॐकारः स्यात् । इत्यूकारे । कअतूहो । कृततीर्थः । पक्षे । कअतित्थो । दुहो । दुःस्वम् । अत्र १ अकार्यस्येकारः P., R. २ M. has इतीकारे before this. ३ M. has रः' इत्यनुवर्तते before it. ४ रो भवति M. ५ M. has प्रकाशितशौण्डीर्यः । अत्र शेषस्यादेशस्य वा रेफस्य न द्वित्वम् । 'अहः' इति प्रतिषेधात् । ६ स्तो) भवति M. M. has नेत्रजलम् before 'अश्रुणि'. ८ ऊष्मो M. ९ M. has before it 'हः' इत्यनुवर्तते । १० भवति M. ११ M. has 'हः' इत्यनुवर्तते before it. १२ इत्यधिकृत्य M. १३ ईतः before ईकारस्य M. १४ ऊत् before ऊकारः M. १५ इतीकारस्थाने ऊकारे M. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy