________________
४२
षड्भाषाचन्द्रिकायां दुःखशब्दस्य कुलादिपाठाद्विकल्पेन पुंस्त्वम् । दुहिओ । दुक्खिओ। दुःखितः । दक्षिणशब्दे हत्वे 'शोर्लप्तयवरशौर्दिः' इत्यतः 'दिः' इत्यधिकृत्य
हे दक्षिणेस्य ॥ १।२।९॥
अत्र युक्तस्य हे सत्यादेरवर्णस्य दीर्घः स्यात् । दाहिणो । हत्वाभावे दैक्खिणो । दीर्घशब्दे हत्वे दीहो । 'नवैकाद्वा' इत्यतः 'वा' इति 'खार्थे तु कश्च' इत्यतः 'खार्थे' इति चोधिकृत्य
रो दीर्घात् ॥ २॥ १ ॥ २४ ॥ दीर्घात् 'खार्थे' रो वा स्यात् । दीहरो । हत्वाभावे रेफलोपद्वित्वहखाः । दिग्यो । अत्र सर्वस्य शेषस्यादेशस्य वा हस्य न द्वित्वम् ॥
हो ल्हः ॥ १।४। ६६ ॥ लकारस्य लाक्रान्तहकारः स्यात् । प्रह्लादः । पल्हाओ । अत्र 'प्रायो लुक्-' इति दलोपः । कलारपरः । कल्हारपरो ॥
श्मष्मस्मझामसररश्मौ म्हः॥१।४।६७ ॥ श्मादीनां म्हादेशः स्यात् स्मररश्मिशब्दौ वर्जयित्वा । काश्मीरः । कम्हारो॥
काश्मीरे म्भः॥१। ४ । ५३ ॥ अत्र स्तोर्मो वा स्यात् । कम्भारो । अत्रोभयत्रापि ईतः काश्मीरहरीतक्यो लौ ॥१।२ । ५१ ॥
एतयोरीकारस्य यथाक्रमं आ अ इत्यादेशौ लितौ स्तः । इत्याकारः । ग्रीष्मः । गिम्हो । विस्मयः । विम्हओ । अस्मादृशः । अम्हारिसो । अत्र 'दृश्यक्सक्वीनि' इति ऋकारस्य रिकारः। दलोपश्च ।
१ पुंलिङ्गता M. २ इत्यधिकृत्य M. ३ M. has खत्वे before दक्खिणो. ४ इत्यधिकृत्य M. ५ इति चाधिकृत्य M. ६ M. adds अह्र इति प्रतिषेधात्. ७ म्हादेशो भवति M. ८ भ इत्यादेशो वा स्यात् M. ९ विम्मओ P. १० रिः M.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org