SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ षड्भाषाचन्द्रिकायां मध्यमकतमे च ॥ १।२ । १४ ॥ अनयोद्वितीया चेत्वं स्यात् । 'प्रायो लुक्-'इति तलोपः। कइमो॥ शेष सर्ववत् । येषां यत्र यत्र सर्वनामसंज्ञा तत्र तत्र सर्ववत् । अन्यत्र रामशब्दवद्रूपनिर्णयः कर्तव्यः ॥ इति सर्वनामानि ॥ अथाकारान्तेषु केषुचित् संयुक्तादेशवत्सु विशेषाः प्रदर्श्यन्ते । स्तोः ॥१।४।१॥ अधिकारोऽयम् । 'ईल ज्यायाम्' इति यावत् । यदित ऊर्ध्वमनुक्रमिष्यते तत् स्तोः संयुक्तस्य भवतीति वेदितव्यम् ॥ व॑क्षशब्दे 'क्ष्वेडकगे खल्' इत्यतः 'खल्' इत्यधिकृत्य वुश्च रुव॒क्षे ॥ १।४ । ७ ॥ वृक्षे संयुक्तस्य खो भवति । तत्संनियोगेन वृकारस्य रुकारः । रुक्खो । रुक्खों । अस्यैव रूपान्तरम् । 'उत्सवऋक्षोत्सुकसामर्थ्य छो वा' इत्यतः 'छः' इत्यधिकृत्य स्पृहादौ ।१।४ । २२ ॥ स्पृहादिषु स्तोश्छो भवति । इति स्पृहादिपठितवृक्षशब्दे क्षस्य छत्वे ऋतोत् ॥ १।२ । ७४ ॥ आदेर्ऋकारस्यात् स्यात् । इत्यत्त्वे वच्छो वच्छा ॥ शेषं रामवत् । एवं सर्वत्र विशेषादेशमात्रमुच्यते । अन्यत् सर्वं रामवदूह्यम् । __ १ 'ईल्जायाम्' My. २ इति ऊर्ध्वं यदुपक्रमिष्यते M. ३ स्यादिति P., My. ४ प्रथमं वृक्षशब्दे R. ५ इत्यंधिकृत्य R., M. ६ वृक्षशब्दे संयुक्तस्य P., My. ७ खः स्यात् My., P. ८ तत्संनियोगे M. ९ M. has शेष रामवत् after this. १. The passage from अस्यैव रूपा. न्तरम् to वच्छो वच्छा is omitted in My. and R. ११ M. has वा देशान्तरम् after this. १२ स्पृहादिपठितस्य P. १३ वृक्षशब्दस्य P. १४ P. drops क्षस्य. १५ °स्यात्वं स्यात P. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy