SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ अजन्तपुंलिङ्गाः। सति । एक्कल्लो इत्यप्यस्ति ॥ शेषं सर्ववत् । ननु एक्को एक्कल्लो इत्यत्र 'संयोगे' इत्येकारस्य हूखः किं न स्यात् । किं ततः । तदानुक्तन्यायेन 'एच इग्घ्रस्खादेशे' इतीकारः स्यात् । ततश्च इक्को इक्कल्लो इति स्यादिति चेन्मैवम् । 'अत्र शास्त्रे एदोतोः क्वचित् खरूपेणैव हूखः' इति त्रिविक्रमदेवेनोक्तत्वादत्र खरूपहखाङ्गीकारात् । एक्को । एकल्लो इत्युपपन्नः प्रयोगः । प्रथमशब्दे प्रथम सु इति स्थिते 'हे दक्षिणेस्य' इत्यतः 'अस्य' इत्यनुवर्तमाने 'उल्ध्वनिगवयविष्वचि वः' इत्यतः 'उल्' इति च प्रथमे प्थोः ॥१।२।२० ॥ प्रथमशब्दे पकारथकारयोः संबन्धिनोवर्णस्य युगपत् क्रमेण चोत्वं स्यात् । लित्वान्नित्यम् । इत्यवर्णद्वयस्योत्वे 'वेतसः-'इत्यतः 'तोः' इत्यनुवर्तमाने 'ढः पृथिव्यौषधनिशीथे' इत्यतः 'ढः' इति च प्रथमशिथिलमेथिशिथिरनिषधेषु ॥ १ । ३ । ४८॥ एषु तवर्गस्य ढो भवति । इति थकारस्य ढत्वे युगपदकारद्वयस्योकारद्वयविधानपक्षे पुढुमो । क्रमपक्षे । पुढमो । पढुमो ॥ जसि तु पूर्ववत् । शेषं रामवत्। स्वशब्दे विशेषः । ख सु इति स्थिते 'अर्हत्युच्च' इत्यतः 'उत्' इत्यनुवर्तमाने एकाचि श्वस्स्वे ॥ १।४।१०८ ॥ एकखरयोः श्वस्ख इत्येतयोः संयुक्तस्यान्त्यहलः प्रागुत्वं भवति । इत्युत्वे सुवो सुवे । इत्यादि। ङसिड्योः पूर्वशब्दवत् । अन्यत्र सर्ववत् । एकाजिति किम् । खजनः । सजणो ॥ कतमशब्दे 'सप्तपणे फोः' इत्यतः 'फोः' इत्यधिकृत्य १ संबन्धिवर्णस्य M. २ मेधि° R., M. ३ शिधिर' M. ४ ढः स्यात् My. ५ My. and P. omit विशेषः, P. drops विशेषः, ६ इत्यनुवर्तते M. ७ स्वश्व M., P. ८ स्यात् My., P. ९ जसि R.; शसि M.; ङसिौ My. १० अन्यत्र तु M. ११ इत्यधिकृत्य R., M. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy