________________
२८
षड्भाषाचन्द्रिकायां इत्युभयशब्दस्य अवहादेशे सर्ववद्रूपम् । आदेशाभावपक्षे भस्य हत्वे उहअं । उवहं इत्यपि केचित् । पक्षद्वयेपि सर्ववत् प्रक्रिया ॥ पूर्वशब्दस्य ।
मलिनधृतिपूर्ववैडूर्याणां मइलदिहिपुरिमवेरुलिआः ॥१।३।९९॥ __ मलिनादीनां मइलादय आदेशा वा भवन्ति । इति पूर्वशब्दस्य पुरिमादेशे । पुरिमो । पुरिमे । इत्यादि । आदेशाभावपक्षे रेफलोपे शेषस्य द्वित्वे
संयोगे ॥१।२।४०॥
संयोगे परे पूर्वस्य ह्रखो भवति । इति हूखे । पुव्वो । पुवे । इत्यादि सर्ववद्रामवच्च । हूखे कृते 'स्तौ' इत्युत ओत्वम् । बहुलाधिकारात् सर्वत्र न भवति । अथवा ओत्वस्यानादेशविषयत्वाद्वा परिहारः ॥ एकशब्दस्य
दैवगेखौ ॥ १।४ । ९२ ॥ 'रितो द्वित्वल' इत्यतो 'द्वित्वल्' इत्यनुवर्तते । दैवादिष्वनादौ वर्तमानस्य व्यञ्जनस्य द्वित्वं वा स्यात् । इति दैवादिपाठात् द्वित्वे । .. एक्को । द्वित्वाभावे
वैकादौ गः॥ १।३ । १४॥ 'खोपुष्पकुजकर्परकिले कोः' इत्यतः 'कोः' इत्यनुवर्तते । एकादौ कोः कवर्गस्य गकारो वा भवति । एगो । 'स्वार्थे तु कश्च' इत्यतः 'स्वार्थे' इति 'उपरेः संव्याने लल्' इत्यतो 'लल्' इत्यप्यधिकृत्य
नवैकाद्वा ॥२ । १ । २०॥ नव एक आभ्यां परः खार्थे द्विरुक्तो लो वा स्यात् । इति खार्थे ल्ले
१ सर्वशब्दवत् R. and सर्ववत् M. for सर्ववद्रूपम्. २ आदेशाभावे My., P. ३ My. and P. drop प्रक्रिया. ४ वैदूर्याणां M. ५ स्युः My., P. ६ M. drops परे. ७ इत्यनुवर्तते M., R. ८°किते कोः P. ९ इति च द्वयमप्यधिकृत्य M., R.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org