________________
२४
षड्भाषाचन्द्रिकायां तादर्से विहितस्य डेश्चतुर्येकवचनस्य स्थाने उम् । षष्ठी तु विकल्पेन भवति । तथा च रामस्स रामाय वा पोप्फाणि । रामार्थ पुष्पाणीत्यर्थः । एवं सर्वत्र तादर्थ्य चतुर्येकवचनस्य विकल्पेन प्रयोगः प्राकृते ऊह्यः ॥ पञ्चम्येकवचने हिंतोत्तोदोदु उसिस् ॥ २ । २।६॥
अत्र ङसिसिति सुब्व्यत्ययेन षष्ठ्यर्थे प्रथमा । तथा च नाम्नः परस्य ङसिसः पञ्चम्याः स्थाने हितो तो दो दु इति चत्वार आदेशा भवन्ति । सिसित्यनेन एकवचनबहुवचनयोर्ग्रहणम् । तेनोभयत्राप्येते आदेशाः । तथा च । रामहितो । रामत्तो । रामदो । रामदु । इति स्थिते दिर्दोत्तोदुङसौ ॥ २ ॥ २ ॥ ८॥
पञ्चम्यादेशेषु दो तो दु इत्येतेषु ङसौ पञ्चम्येकवचने च परतः पूर्वाचो दीर्घः स्यात् । रामाहितो । अत्रैकवचनत्वाद्दीर्घः । एवमेकवचनादेशेषु नित्यमेव दीर्घः । बहुवचनादेशेषु दो तो दुवपि । अन्यत्र विकल्पः । रामत्तो । अत्र 'संयोगे' इति कृतदीर्घस्यापि हखः । नन्वत्र यदि इखस्तर्हि दीर्घविधौ त्तो इत्यस्य ग्रहणं किमर्थम् । 'भिस्भ्यस्सुपि' इति भ्यसादेशेस्मिन्नेत्वबांधनार्थम् । दोदुग्रहणमप्येत्वापवादा. यैव । तेन तो इत्यत्र हूख एव । दोदु इत्यत्र दीर्घ एव । 'प्रायो लुक्-'इत्यादिना दकारयोर्लोपः । रामाओ रामाउ । नन्वत्र दलोपः कर्तुं न शक्यते । दोदु इति प्रतिपदोक्तत्वादिति चेन्न । दोद्वन्तयोः प्रयोगादर्शनात् । तर्हि दकारोच्चारणं किमर्थम् । भाषान्तरार्थम् । तेन शौरसेनीमागध्योरातिदेशिकौकारोकारौ न स्तः । किं तु दोदू एव ।
१M. drops डेः. २ रामाय रामस्स My., P. ३ तादर्थ्येकवचनप्रयोगस्य विकल्पः M. ४ आदेशाः स्युः My., P. ५ भयत्रापि आदेशा एते M. ६ R. drops च. ७ पूर्वस्याचो R. ८ दुषु विकल्पः R. ९ निषेधार्थम् M. १० शक्यः My., P.
ना तो दुस्वपि । अन्य
अत्र 'संयोगे
नन्वत्र यदि हम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org