________________
अजन्तपुंलिङ्गाः । पैशाच्यां गिरीतो इत्यादौ 'तल् तदोः' इति दकारस्य तकारार्थ चेति युक्तं दकारोच्चारणम् ॥
ङसेः श्लुक् ॥ २।२।१५॥ ___ अत इत्यनुवर्तते । अतः परस्य ङसेः श्लुक् स्यात् । शित्वात् पूर्वस्य दीर्धः । रामा ॥ _उसिसो हि ॥ २।२ । १७॥
अत इत्यनुवर्तते । अत्रापि ङसिस इत्यनेनैकवचनबहुवचनयोः परिग्रहः । अतः परस्य ङसिसः पञ्चम्या हि इल्देशो भवति । रामाहि । अत्राप्येकवचनादेशत्वाद् ‘दियॊत्तोदुङसौ' इति दीर्घः ॥ भ्यसि हिंतो इत्याद्यादेशा हि इत्यादेशोपि ॥
सुन्तो भ्यसः ।।२।२ । ७॥
नाम्नः परस्य भ्यसः सुन्तो इति भवति ॥ 'अतो डो विसर्गः' इत्यतः 'अतः' इत्यधिकृत्य दिवा भ्यसि ॥२।२।१९ ॥
अत इति पञ्चम्यन्तस्य षष्ठ्यन्तविपरिणामः । अतो भ्यसादेशे परे दी| वा स्यात् । पक्षे 'भिस्भ्यः सुपि' इत्येत्वम् । रामाहितो रामेहिंतो । रामासुंतो । रामेसुंतो। रामाहि । रामेहि । त्तोदोदुषु दीर्घ एव । अत्रापि 'संयोगे' इति कृतदीर्घस्यापि हखः । रामत्तो। रामाओ । रामाउ ॥ राम ङस् इति स्थिते
ङसोस्त्रियां सर् ॥ २ । २ । १० ॥
नाम्नः परस्य ङसः सर् इत्ययमादेशो भवति न तु स्त्रियाम् । रित्त्वाद् द्वित्वम् । रामस्स । अस्त्रियामिति किम् । महिलाए । मालाए । बुद्धीए । घेणूए ॥ राम आम् इति स्थिते
१R. has एवम् before पैशाच्यां. २ परिग्रहणम् M. ३ पञ्चम्याः स्थाने हि M. ४ त्यादेशः स्यात् My., P. ५ इत्यादेशो भवति M. ६ दो M. ७ इत्यधिकृत्य M. ८ षष्टयर्थो विपरिणामः M. ९ R. drops कृत. १० मादेशः स्यान्न My., P. ११ My. and P. drop मालाए.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org