SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ अजन्तपुंलिङ्गाः। सिद्धम् ॥ एवं सर्वत्र सावधानेन संधितंदपवादौ विज्ञाय कविभिः प्रयोगाः संचारणीयाः ॥ इति संधिप्रकरणम् । अमलस्फटिकाङ्गाय चन्द्रमाखण्डधारिणे । वटाधःस्थितिदक्षाय दक्षिणामूर्तये नमः ॥ अथाजन्ताः पुंलिङ्गा उच्यन्ते । अंकारान्तः पुंलिङ्गो रामशब्दः । अनुक्तमन्यन्यायेन प्रातिपदिकसंज्ञा खाद्युत्पत्तिश्च । राम सु इति स्थिते 'अतो डो विसर्गः' इत्यधिकृत्य सोः॥ २ । २ । १३ ॥ अतः परस्य सोः स्थाने डो भवति । अनुक्तमन्यन्यायेन डलोपटिलोपौ । रामो ॥ द्विवचनस्य प्रयोगो नौस्तीत्युक्तमेव । रोम जस् इति स्थिते शास्त्रान्तर इवैकशेषः । श्लुगजश्शसोः ॥२।२।३॥ नाम्नः परयोर्जश्शसोः श्लुक् स्यात् ॥ शिति दीर्घः ॥ १।१ । १५ ॥ शिति परतः पूर्वस्याचो दीर्घः स्यात् । रामा ॥ संबुद्धौ राम सु इति स्थिते । अत्राप्यनुतन्यायेनैकवचनस्यैवं संबुद्धित्वम् । १°तदपचारान् R. २ प्रक्रिया R. ३ R. omits this verse; and M. puts it after अथाजन्तपुंलिङ्गा उच्यन्ते. ४ अथाजन्तपुंलिङ्गा M. ५ My. and P. omit पुंलिङ्गा उच्यन्ते. ६ My. and P. omit अकारान्तः पुंलिङ्गो रामशब्दः. ७ दो M. ८ दो M. ९ स्यात् My., P. १० टिलोपदलोपौ M. ११ द्विवचनप्रयोगो My., P. १२ नेत्युक्तमेव My., P. १३ बहुष्वर्थेष्वनेकरामशब्दप्रयोगे प्राप्ते शास्त्रा My., P. १४ My. and P. have तस्माजसि after it. १५ संबोधने My., P. १६ My. and P. drop अत्रापि. १७ अनुक्तमन्यन्यायेन My., P. १८ My. and P. drop एव. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy