________________
षड्भाषाचन्द्रिकायां इत्यत्रापि 'पट्टघोट्टडल्लपिज्जाः पिबतेः' इत्यनेन सूत्रेण पिवतेः पिज्जादेशे उदकशब्दे च दकयोर्लोपे अकारोकारयोः संधिर्न भवति ॥ त्रिदश ईश इति स्थिते 'लवराम्-'इति रेफलोपे 'प्रायो लुक्-' इति दलोपे चोभयत्र 'शोः सलू' इति शकारयोः सत्वे सति तिअस ईस इति स्थिते अनुक्तमन्यन्यायेन 'आद्गुणः' इति गुणे प्राप्ते 'बहुलम्' इत्यधिकृत्य 'शेषेच्यचः' इति च
लोपः ॥ १।१ । २४ ॥
अचोचि परे बहुलं लोपः स्यात् । इत्याद्यसकारस्थाकारलोपे तिअसीसो ॥ एवं निश्वासउच्छ्रास इति स्थिते निश्वासशब्दे 'लवराम्-' . इति वलोपे
शोलप्तयवरशोर्दिः ॥ १।२।८॥
यवरशषसानां लोपे येवशिष्टाः शषसास्तेषामादेरचो दीर्घो भवति । इति दीर्घे णीसास इति स्थिते शेषत्वात् सकारस्य द्वित्वे प्राप्ते
दीर्घान्न ॥ १।४। ८७ ॥
दीर्घात् परस्य शेषस्यादेशस्य च द्वित्वं न भवति । इति द्वित्वप्रतिषेधः ॥ उच्छासशब्देपि
दोदोनुत्साहोत्सन्न ऊच्छसि ॥१। २ । ६२ ॥
उँदः उदित्युपसर्गस्य उकारस्य शसि शकारसकारपरयोः दा दकारेण सह ऊत्वं भवत्युत्साहोत्सन्नशब्दौ वर्जयित्वा । इत्युद ऊकारे णीसासऊसास इति स्थिते पूर्ववद्गुणे प्राप्ते 'लोपः' इत्यनेन पूर्वपदान्त्यसकारस्थाकारस्य लोपे . द्विवचनस्य बहुवचनम् ॥ २ । ३ । ३४ ॥
अस्मिन् शास्त्रे सुबन्ते तिङन्ते च द्विवचनस्य बहुवचनं भवति । इति बहुवचने 'श्लग्जश्शसोः' इति जसो लोपे णीसासूसासा इति
१°ढल्ल° P. २ इति सूत्रेण R. ३ R. drops प्राप्ते. ४ स्यात् My., P. ५ P. drops उदः. ६ स्यादु My., P.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org