________________
संधिप्रकरणम् । हास्थाकोरस्य पलोपे शिष्टेन ऊकारेण सह गुणलक्षणसंधिर्न भवति । बहुलाधिकारात् कचिद्विकल्पः । कुम्भकारः । अत्र कलोपे शिष्टेन संधिपक्षे कुंभारो संध्यभावे कुम्भआरो ॥ सुपुरुषः । सूरिसो । सुउरिसो । अत्र पलोपे 'त्वदुत उपरिगुरुके' इत्यत 'उतः' इत्यनुवर्तमाने
रो कुटीपुरुषयोरित् ॥ १।२ । ६० ॥
अनयो रेफसम्बन्धिन उकारस्य इत् स्यात् । इति पुरुषशब्दे रेफोकारस्येकारः। क्वचिच्छिष्टेन नित्यं संधिरेव । शातवाहनः । सालाहणो । चक्रवाकः । चक्काओ । अत्र 'प्रायो लुक्-'इति वलोपे शिष्टेन सह लकारस्थाकारस्य सवर्णदीर्घलक्षणसंधिरेव । अत्र संस्कृतशात. वाहनशब्दः प्रकृतिभूतः । अत्र 'दोहदप्रदीपशातवाहनातस्याम्' इति तवर्गस्य लत्वम् । अथवा शालावाहनशब्दस्य संस्कृतस्य प्रकृतित्वं तत्र ‘ड्यापोः संज्ञाछन्दसोर्बहुलम्' इति शालाशब्दस्थापो हवः। संज्ञारूपत्वात् । यद्वा सालवाहनशब्दस्य वा प्रकृतित्वम् । सर्वथा लौकिकप्रसिद्धस्य शालिवाहनशब्दस्य तु प्रकृतित्वं न योयुजीति । द्वितीयोदाहरणेपि 'लवरामधश्च' इति रेफलोपे शेषस्य द्वित्वे ककारस्थाकारस्य वलोपे शिष्टेनाकारेण सह संधिरेव। सालवाहणो चकवाओ इत्येतौ तु प्रायोग्रहणाद्वकारस्य लोपाभावे भवतः । लोपे तु संधिरेव ॥
तिङः॥१।१। २३॥
'न' इत्यनुवर्तते । 'अचः' इति 'अचि' इति च 'संधिः' इति च । तिङः संबन्धिनोचोचि परे संधिर्न भवति । भवतीह । होइ इह । पिबोदकम् । पिज उअअं । अत्र 'होहुँवहवा भुवेस्तु-' इत्यनेन भवतेर्धातोहाँ इत्यादेशे 'लटस्तिप्ताविजेच्' इत्यनेन लटस्तिप इजादेशे च होइ इह इति स्थिते इकारयोः संधिर्न भवति । पिज्ज उअअं
१ अवशिष्टेन M. २ सुउरिसो सूरिसो M. ३ अवशिष्टेन M. ४ "प्रतीप My. ५ संस्कृतशालावाहनशब्दः प्रकृतिभूतस्तस्मिन् पक्षे M. ६ योयुज्यते R. ७ अवशिष्टेन M. ८ लोपाभावेपि R. ९ स्यात् My., P. १० होहवहुवा P. ११ My. and P. drop भवति.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org