SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ षड्भाषाचन्द्रिकायां यित्वा । इति मलोपे प्राप्ते 'यत्तत्सम्यग्विष्वक्पृथको मल्' इत्यतो मलित्यधिकृत्य मोचि वा ॥ १।१।३९ ॥ शब्दानामन्त्यमकारस्याचि परे मो वा स्यात् । रामममलं । मत्वाभावे 'बिन्दुल्' इत्यनेन सामान्यप्राप्तो बिन्दुरेव । तथा च रामंअमलं । एवमचि परे मस्यादेशौ सर्वत्र संचारणीयौ । बहुलाधिकारात् क्वचिदेकपदेपि संधिर्भवति । करिष्यति । काही । काहिइ ॥ द्वितीयः । बीओ । बिइओ ॥ काहीत्यत्र 'लटस्तिप्ताविजेच्' इति सूत्रे लड्ग्रहणस्य लकारसामान्यवाचकत्वाल्लुटोपीजादेशे सति 'भविष्यति हिरादिः' इति सूत्रेण लडादेशस्य इचः प्राक् हि इत्यस्य प्रयोगे 'आ भूतभविष्यति च कृत्रः' इत्यनेन कृत्र ऋकारस्य आत्वे सैति काहिइ इति स्थिते सवर्णसन्धौ कृते काही । सन्ध्यभावे काहिइ इति सिद्धम् । द्वितीयशब्देपि 'कग-' इति सूत्रेणोपस्थितदलोपे वबयोरेंभेदन्यायेन वकारस्य बत्वे बितीय इति स्थिते 'वा पानीयगे' इति सूत्रेण पानीयादिगणपठितस्य द्वितीयशब्दस्य संबंन्धिन ईकारस्य इत्वे सति 'प्रायो लुक्' इति तलोपे बिइअ इति स्थिते सवर्णसन्धौ कृते बीओ सन्ध्यभावे बिइओ ईति द्वयं सिद्धम् । नन्वत्र वबयोरभेदन्यायस्त्वसंगत एव । स किं व्याकरणान्तरसिद्धत्वाद्वा अत्र शास्त्रे विधानाद्वा । नाथः । व्याकरणान्तरे तदभेदविधानाभावात् । न द्वितीयः । तद्गमकाभावात् । तस्मादसंगतमेतदित्यत्रोच्यते । आद्यपक्षदूषणमस्मदिष्टमेव । द्वितीयं तु न सहामहे । अभेदगमकस्य विद्यमानत्वात् । तथाहि । 'नीवीखमे वा' इत्यनेन सूत्रेण वस्य मत्वं विधीयते । अत्र च स्थान्यादेशाभ्यां भवितव्यम् । न चात्र सूत्रे १ M. drops परे. २ R. drops सति. ३ P. and R.drop अपि. ४ °रभेद इति न्यायेन My., P. ५ संबन्धि ईकारस्य My. ६ इति पदद्वयं M. . 'दसंगतमेव तदिति My., P. 6 °दिति चेदत्रोच्यते My., P. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy