________________
१५
सन्धिप्रकरणम् । इति शस्य सत्वे च कईईसर इति स्थिते पूर्ववत् सवर्णसंधौ प्राप्ते विकल्पः । कइईसरो। कईसरो इत्यागृह्यम् । नात्र 'शेषादेशस्य-' इत्यादिना सस्य द्वित्वम् । 'दीर्घान्न' इति प्रतिषेधात् । अपद इति किम् । वच्छाइ मुद्धाए । अत्र प्रत्युदाहरणद्वयेपि वृक्षशब्दस्य 'क्लीबे गुणगाः' इति गुणादिपाठान्नपुंसकत्वे 'निशिंशिङ् जश्शसोः' इति शिङ् । मुग्धाशब्देपि शो गित्यनुवर्तते ।
कगटडतदपक पशोरुपयद्रे ॥ १।४ । ७७ ॥
संयुक्तसंबन्धिनामुपरिस्थितानां द्रशब्दव्यतिरिक्तानां कादीनां जिह्वामूलीयोपध्मानीययोः शोः शषसानां च लुक् स्यात् । इत्युपरिस्थितगलोपे 'रितो द्वित्वल' इत्यधिकृत्य
शेषादेशस्याहोचोखोः ।। १ । ४ । ८६ ॥
संयुक्तयोरेकतरस्य लोपे योवशिष्यते स शेषस्तस्य संयुक्तादेशस्य च अहः हकाररेफवर्जितस्य अचः स्वरात् परस्य अखोरनादौ वर्तमानस्य द्वित्वं भवति । इति धस्य द्वित्वे मुंद्धा इति स्थिते 'ङसेः शशाशिशे' इत्यनेन शे सत्युभयत्राय॑नुक्तमन्यन्यायेन शास्त्रान्तरसिद्धे 'लशक्कतद्धिते' इति सूत्रेण शलोपे इकारैकारयोरवस्थाने गुणवृद्धिलक्षणसन्धौ प्राप्ते 'अपदे' इति प्रतिषेधान्न भवेति । अत्र शिङः शे इत्यस्य च प्रत्ययत्वाभावेपि प्रत्ययादेशत्वात् तदादेशन्यायेन प्रत्ययत्वम् । तथा च युक्तः शलोपः । रामममलं वन्दे इत्यादिषु राँमम् अमलम् इति स्थिते 'लोपः' इत्यधिकृत्य
अन्त्यहलोश्रदुदि ।। १ । १। २५ ॥ शब्दानामन्त्यहलो लोपः स्याच्छ्रदित्यव्ययमुदित्युपसर्ग च वर्ज
१त्यनुवर्तमाने M. २ °पबः R. ३ 'रहितानां My., P. ४ द्वित्वलियतो द्वित्वलित्यधिकृत्य P. ५ मुद्धा इ इति R. ६ प्यनुक्तन्यायेन M. ७ रवस्थाने सति R. ८ निषेधान्न M. ९ संभवति M. १० रामं अमलं वन्दे इति स्थिते My., P. ११च्छ्रच्छब्दमुच्छब्दं च र्वजयित्वा B.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org