________________
१४
षड्भाषाचन्द्रिकायां शोः सल ॥१।३ । ८७ ॥
शोः शषसानां सकारो लित् स्यात् । इति षकारस्य सकारे सति वासइसि इति स्थिते अनुक्तमन्येति न्यायेन 'आद्गुणः' इति नित्यत्वेन गुणे प्राप्ते 'सन्धिस्त्वपदे' इति विकल्प्यते । वासेसि । सन्ध्यभावे वासइसी । विषमातपः । अत्र विषमआतप इति स्थिते विषमशब्दे षस्य सत्वं पूर्ववत् । आतपशब्दे 'अस्तोरखोरचः' इत्यनुवर्तमाने प्रायो लुक् कगचजतदपयवाम् ॥ १॥३॥८॥
असंयुक्तानामनादौ वर्तमानानामचः परेषां कादीनां सर्वेषां प्रायो लुक् स्यात् । इति तलोपे 'नात्पः' इत्यत्र आदित्यनुवर्तमाने
यश्रुतिरः॥१।३ । १०॥ 'प्रायो लुक् -' इत्यादिना कादीनां लोपे सति योवशिष्यते अवर्णः सः अवर्णात् परो लघुप्रयत्नतरयकारश्रुतिर्भवति । इत्यकारस्य यकारश्रुतौ सत्यां आअप इति स्थिते 'प्रायो लुक्-' इति पलोपे प्राप्ते नात्पः॥ १।३ । ९ ॥
आत् अवर्णात् परस्य पकारस्य लोपो न भवति । इति पस्य लोपे प्रतिषिद्धे
पो वः ॥१।३।५५॥
असंयुक्तस्यानादौ वर्तमानस्याचः परस्य पस्य वः स्यात् । इति पकारस्य वकारे सति विसमआअव इति स्थिते अनुक्तमन्यन्यायेन 'अकः सवर्णे दीर्घः' इति नित्यत्वेन दीर्घ प्राप्ते विकल्पः । विसमआअवो । विसमाअवो ॥ कविईश्वर इति स्थिते कविशब्दे 'प्रायो लुक्-' इति वलोपः । ईश्वरशब्देपि
लवरामधश्च ॥ १।४ । ७८ ॥
लुगित्यनुवर्तते । संयुक्तसंबन्धिनामधो वर्तमानानां चकारादुपरि वर्तमानानां लवरां लोपः स्यात् । इत्यधो वर्तमानवलोपे 'शोः सल'
१ अनुक्तमन्यन्यायेन M. २ सर्वेषां कादीनां R.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org