________________
सन्धिप्रकरणम् । शिति दीर्घः ॥१।१।१५ ॥
शकार इद्यस्य स शित् । शानुबन्धे परतः पूर्वस्य दीपों भवति । तेन 'शिश्लङ् नपुनरि तु' 'जश्शसोश्श्लुक्' इत्यादौ पूर्वस्याचो दीर्घः सिध्यति ॥
सानुनासिकोच्चारं ङित् ॥ १।१ । १६ ॥
उकारानुबन्धं कार्य सानुनासिकोच्चारं भवति । तेन 'कामुकयमुनाचामुण्डातिमुक्तके मो ङ्लुक्' इत्यादौ काउओ जउणा इत्यादिषु सानुनासिकोचारः फलति । तच्च यथास्थानं दर्शयिष्यामः ॥ इह शास्त्रे 'नृनपि असिङसोः' इत्यादिषु केषुचित् सूत्रेषु नृशब्दो नप्छन्दश्व श्रूयते तो क्रमेण पुंलिङ्गनपुंसकलिङ्गवाचकाविति ज्ञातव्यम् ॥
बहुलम् ॥ १।१।१७॥
अधिकारोऽयमाशास्त्रपरिसमाप्त्यनुवर्तते । तेन प्राकृते यल्लक्षणं तहहुलं भवतीति वेदितव्यम् ॥
अथ सन्धिरुच्यते । सन्धिस्त्वपदे ॥ १।१ । १९ ॥
संस्कृतोक्तः सर्वसन्धिः प्राकृते तु विकल्पेन भवति । अपदे एकपदे तु न भवति ॥ व्यासऋषिः इति स्थिते व्यासशब्दे 'शोलक्खोः-' इत्यतो लुगित्यनुवर्तमाने 'लवरामधश्च' इत्यतोधश्चेति च मनयाम् ॥१।४ । ७९ ॥
अधो वर्तमानानां मनयां लोपः स्यात् । इत्यधो वर्तमानयलोपः ॥ ऋषिशब्देपि 'ऋतोत्' इत्यतः ऋत इत्यनुवर्तमाने इल् कृपगे॥१।२। ७६॥
कृपेत्यादिषु ऋत इत्वं लित् स्यात् । इति कृपादित्वाहकारस्य इत्वे इषि इति स्थिते
१ श इद्यस्य My., P. २ R. drops लिङ्ग.
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org