________________
षड्भाषाचन्द्रिकायां __ य आदिवर्णः स खुसंज्ञः स्यात् । तथा च 'खोः कन्दुक-' इत्यादौ खुशब्देनादिज्ञानं स्यात् ॥
संयुक्तं स्तु ॥ १।१ । १२ ॥
संयुक्तं व्यञ्जनद्वयं स्तुसंज्ञं स्यात् । तेन 'स्तोः' इत्यधिकारसूत्रे स्तोरित्यनेन संयुक्तव्यवहारलाभः ॥
गो गणपरः॥१।१।१०॥
गणप्रधानो य आदिशब्दः स गसंज्ञो भवति । तथा च 'क्लीबे गुणगाः' इत्यादौ गुणगा इत्यनेन गुणादय इति भवति ॥ द्वितीयः फुः ॥ १।१।११॥
यः शब्दस्य द्वितीयो वर्णः स फुसंज्ञो भवति । तथा च 'सप्तपर्णे फोः' इत्यादौ फोरित्यनेन द्वितीयवर्णबुद्धिर्जायते ॥
तु विकल्पे ॥ १।१।१३॥
यो विकल्पवाचकः स सर्वोऽपि तुसंज्ञो भवति । तथा च 'तु समृध्यादौ' इत्यादौ तुशब्देन विकल्पवाचकज्ञानं भवति ॥
अथ प्रसङ्गाच्छास्त्रव्यापितयोपयुक्तानि कतिचित् सूत्राणि व्याख्यायन्ते ।।
प्रायो लिति न विकल्पः ॥ १।१।१४ ॥
यः कार्यार्थ सूत्रेऽनुषज्यते न तु प्रयोगे दृश्यते स इत् व्याकरणान्तरेनुबन्ध इत्युच्यते । लकार इद्यस्य स लित् । लिति कार्ये विकल्पः प्रायो न भवति । तेन 'अविद्युति स्त्रियामाल्' इत्यादौ विधीयमानमाकारादिकं नित्यमेव स्यात् ।।
रितो द्वित्वल् ॥ १।४।८५॥
रेफ इद्यस्य स रित् । रेफानुबन्धस्यादेशव्यञ्जनस्य नित्यं द्वित्वं भवति । तथा च 'लरंकोटे', 'ो दिना रुदिते' इत्यादौ विधीयमानलकारादीनां द्वित्वं सिध्यति ।।
१ खोरित्यनेन M. २ भवति M. ३ बुद्धिर्भवति M. ४ फलति M. ५ कर्तव्ये M. ६ संभवति M. . द्वित्वम् R.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org