________________
संधिप्रकरणम् । तौ दृश्येते । तथा चानुवृत्त्या भवितव्यम् । अनुवृत्तिस्तु 'बो मः शबरे' इत्यव्यवहितपूर्वसूत्रादेव वक्तव्या । तत्पूर्वतनसूत्राणामनुपयोगात् । तथा च सति बस्य स्थानित्वं मस्यादेशत्वं च प्रतीयते । एतच्च 'नीवीखने वा' इत्यत्र वबयोरभेदमन्तरा न घटते । एवं च सति ज्ञापकादिष्टसिद्धिः । तस्माल्लब्धमित्यादिप्रयोगेषु 'लवरामधश्च' इति सूत्रेणोपरिस्थितबलोपो बीओ इत्यादौ वकारस्थाने बकारोच्चारणं च सिध्यति । अथ यदि ज्ञापकाद्वबयोरभेदः स्यात् तर्हि 'बो वः' इति सूत्रेण बस्य वत्वविधानमनर्थकमेव स्यादिति चेन्मैवम् । तद्विधानस्य नियमार्थत्वादित्यलं सूत्रकलहचर्चया । ननु संधाविदमुदाहरणीभवितुमेव नार्हति । खरूपस्यैव दुर्घटत्वात् । तथा हि । 'कग-'इति सूत्रेणोपरिस्थितदलोपे खलु रूपसिद्धिः । नात्र दलोपः कर्तुं शक्यते । ततः पूर्वमेव 'लवराम्'इति सूत्रेण वलोपप्रसक्तेः । तद्युभयलोपो भवत्विति चेदहो विस्मरणशीलता देवानांप्रियस्य यदुदाहरणखरूपभावमपि न जानाति । नन्वत्र पुरस्फूर्तिकत्वाद्दकारस्य वकारस्य तत्सापेक्षत्वाच्च दकारस्यैव लोपो भवतु । सत्यं पुरस्फूर्तिकत्वं सत्यं च तत्सापेक्षत्वं स्वप्रतीतौ वकारस्य । तथाप्यनुक्तमन्यन्यायेन शास्त्रान्तरसिद्धेन 'विप्रतिषेधे परं कार्यम्' इति न्यायेन 'लवराम्-'इति सूत्रस्यैव परत्वाद्वलोप एव युक्त इति नेदमुदाहरणं विद्वत्कवीनां कर्णरसायनीभवितुमर्हति । अत्रोच्यते । 'बहुलम्' इति बहुलग्रहणानुवृत्त्यान्यदेव कार्य सर्वापवादेन भवतीति विप्रतिषेधन्यायमपोद्य दलोप एव भवति । यद्वा द्वितीयमाल्यादिषु 'कग-'इति सूत्रस्य 'लवराम्-' इति सूत्रस्य 'मनयाम्' इति सूत्रस्य च प्रसक्तौ सत्यां 'यथादर्शनं लोपः' इति त्रिविक्रमदेवस्योक्तेरपीदमुदाहर्तुमर्हतीति सर्व भद्रम् ॥
१ तत्प्राक्तनसूत्राणा' My:, P. २ मस्यातिदेशत्वं M. ३ वत्वविधानस्य My., P. ४ खप्रतीतौ तत्सापेक्षत्वं M. ५ शास्त्रान्तरसिद्ध 'विप्र' R.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org