________________
उपोद्धातप्रक्रिया। रेव द्विवचनं प्रायोजि । श्रूयतां तर्हि रहस्यम् । यत्रार्थपरत्वं तत्रैव द्विवचननिषेधः । शब्दपरत्वे तु न निषेधः । यथा पौणिनिशास्त्रे अर्थपरत्वे एव सर्वनामतामङ्गीकृत्य 'एकादाकिनिच्चासहाये' इत्यत्र एकस्मादिति प्रयोज्ये शब्दपरत्वमादाय सर्वनामतानिषेधस्तद्वदनापीति । तस्मादेतान्नियमानाकलय्य विद्वत्कविभिः संतोष्टव्यम् ॥
अनुक्तमन्यशब्दानुशासनवत् ॥ १।१।२॥
यदिह खरादिसंज्ञात्वेन संधिप्रभृतिकार्यत्वेन चानुक्तं तवन्यशब्दानुशासनवत् कौमारजैनेन्द्रपाणिनीयप्रभृतिषु व्याकरणेषु यथोक्तं तथैव वेदितव्यम् । तथा च 'शेषेच्यचः' 'ऐच एङ्' इत्यादिष्वच्प्रत्याहार ऐचप्रत्याहार एप्रत्याहारश्चात्रापि सिध्यति । वच्छो इत्यत्र डो विधाने टिलोपः सिध्यति । सन्धिप्रभृतीत्यत्र प्रभृतिशब्दप्रयोगात् तदादेशन्यायविप्रतिषेधन्यायादिकमनुसंधेयम् । तच्च यथास्थानं दर्शयिष्यामः । ननु यदि व्याकरणान्तरसिद्धं प्रयोजनमत्र स्यात् तर्हि तृणमित्यादौ 'ऋतोत्' इति ऋकारस्यात्त्वविधाने 'उरण रपरः' इत्यकारस्य रपरत्वं स्यात् । तथा च तर्णमिति स्यान्न तु तणमिति चेच्छूयतां तर्हि प्राकृतशास्त्ररहस्यम् । 'बहुलम्' इदं तु सूत्रं 'सिद्धिर्लोकात्' इति शास्त्रादिमसूत्रमारभ्य सप्तदशं सूत्रमाशास्त्रपरिसमाप्त्यनुवतते । तेन बहुलग्रहणसामर्थ्यादत उत्तरेषु सूत्रेषु शास्त्रान्तरसिद्धानि कार्याणि युक्तान्येव भवन्ति न सर्वाणीति बहुलशब्दार्थ सम्यगाकलय्य जोषं स्थेयम् ॥
अंत्र त्रिविधा प्राकृती भाषा । देश्या तत्समा तद्भवा चेति। आद्या लक्षणनिरपेक्षा संप्रदायादेव भवति । यथा ताम्राम्रशब्दयोर्देश्यौ तम्ब
१P. drops तर्हि. २ पाणिनीयशास्त्रे M., M. ३ °परता M., M,. ४ च नोक्तं M., M. ५ वछो My., वच्चो R. ६ चेत्तर्हि श्रूयतां M., M,. . शास्त्रान्तरे सिद्धानि R. ८ अथ M. ९ प्राकृती त्रिविधा M. १० तद्भवतत्समा M.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org